________________ 252 सिद्धहैमबृहत्मक्रिया. [तद्धित 1181 गृष्ट्यादेः // 6 / 1 / 84 // गृष्टयादिभ्योऽपत्ये एयञ् प्रत्ययः स्यात् / अणादीनामपवादः। गृष्टेरपत्यं गार्टेयः / गृष्टिशद्धो यश्चतुष्पाद्वचनस्ततः पूर्वेणैव सिद्धे अचतुष्पादर्थमुपादानम् / मित्रयोरपत्यमित्यत्रानेन एयञ् / ततश्च / ___1182 केकयमित्रयुप्रलयस्य यादेरिय च // 7 // 4 // 2 // एतेषां णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिः स्यात् यादेच शब्दरूपस्य इयादेशः। इति इयादेशे प्राप्त। 1183 सारवैश्वाकमैत्रेयभ्रौणहत्यधैवत्यहिरण्मयम् // 14 / 30 // एते निपात्यन्ते / इति युलोपः / मैत्रेयः / मैत्रेयौ / 1184 यस्कादेोत्रे // 6 / 1 / 125 // यस्कादिभ्यो यः प्रत्ययो विहितस्तदन्तस्य बहुत्वविशिष्टे गोत्रेऽर्थे वर्तमानस्य यस्कादेयः स प्रत्ययस्तस्यास्त्रियां लुप स्यात् / मित्रयवः / अथ मित्रयुशद्धो विदादिषु किं न पठ्यते / तथा च ' केकयमित्रयु '-इत्यादिनेयादेशेनैव सिद्धयतीति नेदं निपातनमारब्धव्यं भवति / यस्कादिषु च मित्रयुशद्धा बहुषु लुबथै न पठितव्यो भवति ' यात्रः' इत्यादिनैव सिद्धत्वात / उच्यते / अनि सति मित्रयणां संघो मैत्रेयकमित्यत्राकलं बाधित्वाण स्यादिति बिदादिषु न पठ्यते। 1185 वाडवेयो वृषे // 6 / 1185 // वाडवेय इति वडवाशद्वात् वृषे एयञ् एयण वा प्रत्ययो निपात्यते / वृषो यो गर्भे बीजं निषिञ्चति। वडवाया वृषः वाडवेयः। अपत्ये अणेव भवति / वाडवः। निपातनमेयणेयोरुभयोरपि वृषे व्यवस्थापनार्थम् / अन्यथाऽन्यतरोऽपत्ये प्रसज्येत / 1186 रेवत्यादेरिकण // 6 // 186! / रेवतीत्येवमादिभ्योऽपत्ये इकण् प्रत्ययः स्यात् / एयणादीनामपवादः / रैवतिकः / व्यपदेशोऽपत्यस्य क्षेपः। .. 1188 तद्धितयस्वरेऽनाति // 2 / 4 / 92 / / व्यञ्जनात् परस्यापत्ययकारस्य यकारादावाकारादिवर्जिते स्वरादौ तद्धिते लुक् स्यात् / गार्या अपत्यं युवा गार्गः गार्गिको वा जाल्मः। दृद्धाधूनीति यूनि प्रत्ययः। वृद्धग्रहणं किम् / कारिकेयो