________________ 250 सिदोमामक्रिया. [तद्धित - 1165 इतोऽनिनः // 6 / 1 / 72 // इअन्तवर्जितात् द्विस्वरादिकारान्तादपत्ये एयण्प्रत्ययः स्यात् / नाभेरपत्यं नाभेयः। अत्रेरात्रेयः। इत इति किम् / दाक्षिः। अनित्र इति किम् / दाक्षायणः / द्विस्वरादित्येव / मरीचेरपत्यं मारीचः। कथमजबस्तेरपत्यमाजबस्तेय इत्यादि ? शुभ्रादित्वाद् भविष्यति / / 1166 शुभ्रादिभ्यः // 6 / 1 / 73 // शुभ्रादिभ्योऽपत्ये एयण्प्रत्ययः स्यात् / यथायोगमित्रादीनामपवादः / शौभ्रेयः / गाङ्गेयः / बहुवचनमाकृतिगणार्थम् / 1167 प्राद्वाहणस्यैये // 7 // 4 // 21 // प्रशब्दात् परस्य वाहणशब्दस्य एये ब्णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिः स्यात् पूर्वस्य तु प्रशब्दस्य वा / प्रवाहयतीति प्रवाहणः प्रवाहणस्यापत्यं प्रवाहणेयः, प्रावाहणेयः / अत्रोत्तरपदवृद्धेः प्रयोजनं प्रवाहणेयी भार्या यस्य प्रवाहणेयीभार्य इत्यत्र पुंवद्भावप्रतिषेधः। 1168 एयस्य // 4 // 22 // एयप्रत्ययान्तावयवात् प्रशब्दात् परस्य वाहणशब्दस्य णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिः स्यात् आदेस्तु प्रशब्दस्य वा। प्रवाहणेयस्यापत्यं युवा प्रवाहणेयिः, पावाहणेयिः / बाह्यतद्धितनिमित्ता वृद्धिरेयाश्रयेण विकल्पनाशक्या बाधितुमिति सूत्रारंभः / 1169 श्यामलक्षणाद्वासिष्ठे // 6 // 174 // श्यामलक्षण इत्येताभ्यां वासिष्ठेऽपत्यविशेषे एयणप्रत्ययः स्यात् / श्यामेयो वासिष्ठः / श्यामायनोऽन्यः / अश्वादित्वात् वृद्धे आयनञ् अद्धे तु श्यामि / लाक्षणेयो वासिष्ठः। लाक्षणिरन्यः। 1170 विकर्णकुषीतकात् काश्यये // 6 / 117 // विकर्णकुपीतक इत्येताभ्यां काश्यपेऽपत्यविशेषे एयण्प्रत्यय: स्यात् / वैकर्णेयः, कौषीतकेय; काश्यपः। वैकणिः, कौषीतकिरन्यः। 1171 ध्रुवो भ्रुत् च // 6 / 1176 // भ्रूशब्दादपत्ये एयण्प्रत्यय: स्यात् भ्रव् चास्यादेशः। भ्रौवेयः। 1172 कल्याण्यादोरिन् चान्तस्य / / 6 / 177 // कल्याण्यादिभ्योऽपत्ये एयण्मत्ययः स्यात् इन् इत्ययं चान्तादेशः। कल्याण्या अपत्यं काल्याणिनेयः / सुभगाया अपत्यमित्यत्रानेन एयणि इन्नन्तादेशे च कृते। 1173 हृद्भगसिन्धोः // 7 / 4 / 25 // हृद्भगसिन्धु इत्येवमन्तानां णिति तद्विते पूर्वपदस्योत्तरपदस्य च स्वरेष्वादेः स्वरस्य वृद्धिः स्यात् / सौभागिनेयः /