SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहस्पक्रिया. 243 1121 ब्राह्मणाद्वा // 6 // 1 // 35 // ब्राह्मणशब्दात् परोयो धेनुशब्दस्तदन्तादपत्येऽर्थे इत्र वा स्यात् / ब्राह्मणधेनविः, ब्राह्मणधेनवः / 1122 भूयःसंभूयोऽम्भोमितौजसः स्लुक् च // 6 // 1 // 36 // भूयस् संभूयस् अम्भस् अमितौजस् इत्येतेभ्योऽपत्येऽर्थे इञ् स्यात् सकारलोपश्चैषाम् / भूयसोऽपत्यं भौयिः / एवं सांभूयिः। आम्भिः। आमितौजिः। भूयसो नेच्छन्त्यन्ये / अकतसोऽपीच्छन्त्येके / आकतिः। 1123 शालयौदिषाडिवाडवलि // 6 // 1 // 37 // शालङ्कि औदि पाडि वाड्वलि इत्येते शब्दा अपत्येऽर्थे इप्रत्ययान्ता निपात्यन्ते ॥शलङ्कोरपत्यं शालङ्किः। अत्रे प्रत्यय उकारलोपश्च निपात्यते / उदकस्यौदिः / अत्रेञ् कलोपश्च / षण्णां पाडिः / अत्रेञ् अन्त्यस्य च डत्वम् / वाचं वदति वाग्वादस्तस्यापत्यं वाड्वलिः / अत्रेञि वाचोऽन्तस्य डत्वं वलभावश्चोत्तरपदस्य / 1124 व्यासवरुटसुधातृनिषादबिम्बचण्डालादन्त्यस्य चाक् // 6 / 1 / 38 // व्यासादिभ्योऽपत्येऽर्थे इञ् स्यात् तत्संनियोगे चैषामक् इत्ययमन्तादेशः। 1125 यवः पदान्तात् प्रागैदौत् // 7 // 45 // णिति तद्धिते इवर्णावर्णयोस्तत्प्राप्तौ वृद्धिप्रसङ्गे तयोरेव स्थाने यौ यकारवकारौ पदान्तौ ताभ्यां पाक् यथासंख्यम् एत् औत् इत्येतावागमौ स्याताम्। यकारात् प्रागैकारःवकारात् प्रागौकार इत्यर्थः। व्यासस्यापत्यं वैयासकिः। वरुटस्य वारुटकिः। सुधातुः सौधातकिः। निषादस्य नैषादकिः / वृद्धे तु परत्वाद् बिदादिलक्षणोऽञ् / नैषादः / बिम्बस्य बैम्बकिः / चण्डालस्य चाण्डालकिः ।सुधातृव्यासाभ्यामणोऽपवादः / वरुटात् कारुव्यस्यापवादः। शेषेभ्योऽस्त्येव / कर्मारव्याघ्राग्निशर्मभ्योऽपीच्छन्त्येके। कार्मारकिः। वैयाघ्रकिः / आग्निशर्मकिः / . 1126 पुनर्भूपुत्रदुहितननान्दुरनन्तरेऽञ् // 6 // 1 // 39 // पुनर्भू पुत्र दुहित ननान्द इत्येतेभ्यो डन्सन्तेभ्योऽनन्तरेऽपत्येऽर्थे अञ प्रत्ययः स्यात् / पुनर्वा अनन्तरमपत्यं पौनर्भवः / पौत्रः / दौहित्रः। नानान्द्रः / अनन्तर इति किम् / वृद्धेऽञ् न भवति / अञो जित्करणमुत्तरार्थम् / इह तु सूत्रेऽभि अणि वा नास्ति विशेषः / नन्वस्त्येव विशेषः / अनि हि ' यत्रबोऽश्यापर्ण' इत्यादिनाबो बहुषु लुप् स्यात् यथा बैदः बैदौ बिदा इति / तथा संघादिष्वर्थेषु ' संघघोषाङ्क'
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy