________________ 242 सिद्धहैमबृहत्मक्रिया. [तद्धित इति / अनभिधानाच शतसर्वद्धकारकराजपुरुषमाथुरकुररादिभ्यो न भवति / 1116 वहीनरस्यत् // 7 // 4 // 4 // वहीनरशद्धस्य ब्णिति तद्धिते परे स्वरेप्वादेः स्वरस्य ऐकार आदेशः स्यात् / वहीनरस्यापत्यं वैहीनरिः। विहीनरस्य वृद्धया सिध्यति, वहीनरस्य वाहीनरिर्मा भूदिति वचनम्। 1117 बाह्वादिभ्यो गोत्रे // 6 // 1 // 32 // स्वापत्यसंतानस्य स्वव्यपदेशकारणमृषिरऋषिर्वा यः प्रथमः पुरुषः तदपत्यं गोत्रम् / बाह्वादिभ्यो डन्सन्तेभ्यो गोत्रेऽपत्येऽथे इन प्रत्ययः स्यात् / अनकारान्तार्थो बाधकबाधनार्थश्चारंभः। बाहोरपत्थं वाहविः / इह बाह्वादिषु उदश्चिति पैलादिषु चोदश्चीति सनकारस्य पाठादनर्चायामपि नलोपाभावः। गोत्र इति किम् / योऽद्यत्वे बाहुर्नाम तस्यापत्यं बाहवः। संभवापेक्षं च गोत्रग्रहणम् / तेन पञ्चानामपत्यं पाश्चिरित्यादि सिद्धम् / बहुवचनमाकृतिगणार्थम् / तेन सख्युरपत्यं साखिः इत्यादि सिद्धयति / शिवादेश्च प्राग्येऽकारान्ता बिदादयस्तेभ्य ऋष्यणं बाधित्वा उक्तादर्थादन्यत्रानेनैवेञ् वक्ष्यते / बिदस्थापत्यमनन्तरं बैदिः। औविः। गर्गादेर्यञ् / गार्गिः। वात्सिः। कुञ्जादेर्शायन्यः / कौञ्जिः। ब्राभिः। अश्वादेरायनञ् / आश्विः / आर्किः / नडादिभ्य आयनण् / नाडिः / मौञ्जिः / अनकारान्तेभ्यस्त्वणेव / औपमन्यवः / जामदग्नः / सौमनसः। भास्मः। लैगवः / शारद्वतः। इतः प्रभृति गोत्रे इत्यधिकारात् गोत्रे संभवति, ततोऽन्यत्र प्रतिषेधः / 1118 वर्मणोऽचक्रात् // 6 // 1 // 33 // चक्रशद्ववर्जितात् परो यो वर्मन्शगस्तदन्तादपत्येऽर्थे इत्र स्यात् / इन्द्रवर्मणोऽपत्यमैन्द्रवमिः। अचक्रादिति किम् / 1119 अणि // 7 // 4 // 52 // अन् इत्येतदन्तस्याणि तद्धिते परेन्त्यस्वरादेलुंग न स्यात् / इति निषेधात् नोपदस्येत्यन्त्यस्वरादेर्न लुक् / .. 1120 अजादिभ्यो धेनोः // 6 // 1 // 34 // अजादिभ्यः परो यो धेनुशद्धस्तदन्तादपत्येऽर्थे इञ् स्यात् / आजधेनविः / अजादयः प्रयोगतोऽनुसतव्याः।