SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ 244 . सिद्धहैमबृहत्प्रक्रिया. [तद्धित इत्यादिनात्रः परोऽण् स्यात् यथा वैदमिति / अणि तु तदुभयमपि न भवति यथौपगवा: औपगवकमिति / तथा पुत्रशद्वादअन्तात् ततोऽपत्यविवक्षायाम् ' अत इञ्' इतीनि 'जिदार्षादणिोः ' इति तस्य लुपि पौत्र इति स्यात् यथा वैदः पिता बैदः पुत्रः। अणि तु 'द्विस्वरादणः' इत्यायनिञ् स्यात् यथा का यणिरिति / उच्यते / पुनधिपत्यस्यागोत्रत्वाद् गोत्राधिकारविहिता लुप् संघाद्यण च न भविष्यति / पौत्रशद्धाचाद्धप्रत्ययान्तत्वादब्यणि च इन आयनिन च न भविष्यतीति विशेषाभाव एव / केचित्तु पुनर्च इति लुपमप्युदाहरन्ति / तेषां पुनभूरिति गोत्रं तत्रेहाप्यस्ति विशेषः। 1127 परस्त्रियाः परशुश्वासावये // 6 // 1 // 40 // परस्त्रीशद्वादनन्तरेऽपत्येऽञ् प्रत्ययः स्यात् तत्संनियोगे परस्त्रीशद्धस्य परशुभावश्चासावये-न चेत् पुरुषेण सह समानो वर्णो ब्राह्मणत्वादिस्तस्या भवति / परा पुरुषाद् भिन्नवर्णा स्त्री परस्त्री। तस्या अनन्तरापत्यं पारशवः / असावर्ण्य इति किम् / परस्य स्त्री परस्त्री, तस्या अनन्तरापत्यं पारस्वैणेयः / कल्याण्यादिपाठादेयण अन्तस्य चेनादेशः। अनुशतिकादिपाठादुभयपदवृद्धिश्च / 1128 बिदाद्धे // 6 / 1 / 41 // विदादिभ्यो वृद्धेपत्येऽर्थे अञ् प्रत्ययः स्यात् / बिदस्यापत्यं वृद्धं बैदः / बैदौ / बहुवचने तु / 1129 योऽश्यापर्णान्तगोपवनादेः // 6 / 1 / 126 // यजन्तस्यात्रन्तस्य च बहुत्वविशिष्टे गोत्रेऽर्थे वर्तमान; यः स प्रत्ययस्तस्यास्त्रियां लुप् स्यात् , गोपवनादिभ्यः श्यापर्णान्तेभ्यो विहितं वर्जयित्वा / गोपवनादिबिंदाधन्तर्गणः / बिदाः / और्वः और्वी उर्वाः / काश्यपः काश्यपौ कश्यपाः / भारद्वाजः भारद्वाजौ भरद्वाजाः। अथेन्द्रहः सप्तमः काश्यपानां भारद्वाजानां कतमोऽसीत्यत्र बहुषु लुप् कस्मान्न भवति ? नायमञ् किंतु तस्येदमिति विवक्षायामण। सर्वेषामपि हि पितरोऽभेदोपचारेण कश्यपाः। यथा बभ्रुः मण्डुः लमक इति / वृद्ध इति किम् / विदस्यापत्यमनन्तरं बैदिः। 1130 गर्गादेर्यम् // 6 / 1 / 42 // गर्गादिभ्यो डसन्तेभ्यो वृद्धेऽपत्येऽर्थे या प्रत्ययः स्यात् / गगेस्यापत्यं वृद्धं गाग्यः। वात्स्यः। बहुवचने गर्गाः। वत्साः / वृद्ध इत्येव / गर्गस्यापत्यमनन्तरं गार्गिः। गोत्र इत्येव / गर्गो नाम कश्चित् तस्यापत्यं वृद्धं गार्गिः / ननु मनोरत्र पाठाल्लोहितादित्वात स्त्रियां नित्यं डायनि
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy