________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 239 अणपवादे च, उत्सस्यापत्यम् औत्सः / औदपानः / अत्र इञ् पामोति / कुरोरपत्यं कौरव्य इति व्यविधौ कुरुशद्धोपादानस्यानवकाशत्वात् भवति / कौरव इति त्वपत्यस्यापीदमर्थविवक्षायां भविष्यति / उत्तरत्र वष्कयशब्दस्य समासे प्रतिषेधादुत्साधन्तस्यापीह प्रत्ययः। तेन गोधेनुभ्य आगतं गौधेनवमिति सिद्धम् / अन्यथा रूप्यमयटौ स्याताम् / 1100 बष्कयादसमासे // 6 / 1 / 20 // वष्कयशद्वादसमासे वर्तमानात् प्राग्जितीयेऽर्थेऽनिदम्यणपवादे चाञ् स्यात् / बष्कयस्यापत्यं बाष्कयः। असमास इति किम् / सुबष्कयस्यापत्यं सौवष्कयिः। इव / 1101 देवाद्यञ् च // 6 // 1 // 21 // देवशद्धात् माग्जितीयेऽर्थे निदम्यणपवादे च यज्ञ चादञ् च प्रत्ययः स्यात् / देवस्येदं देवादागतं वा दैव्यम्, दैवम् / यअन्तादअन्ताच्च ङयां दैवी वाक् / केचित्तु व्यप्रत्ययमपीच्छन्ति / तन्मते दैव्या / 1102 अः स्थाम्नः // 6 / 1 / 22 / / स्थामन्शदात् माग्जितीयेऽर्थे अः प्रत्ययः स्यात् / अश्वत्थाम्नोऽपत्यमश्वत्थामः / 1103 द्विगोरनपत्ये यस्वरादे बद्रिः॥६।१।२४॥अपत्यार्थादन्यस्मिन् पाग्जितीयेऽथै उत्पन्नस्य द्विगोः परस्य यकारादेः स्वरादेश्च प्रत्ययस्य सकृल्लुप स्यात् न तु द्विः / द्वयो रथयोढिरथ्या वायं वोढा द्विरथः। ' रथात्सादेश्च वोढुङ्गे' इत्यर्थे 'यः' इति यः / पञ्चसु कपालेषु पञ्चकपाल्यां वा संस्कृतः पश्चकपालः / द्विगोरिति किम् / पूर्वशालायां भवः पौर्वशालः / अनपत्य इति किम् / द्वैमातुरः / यस्वरादेरिति किम् / पञ्चभ्यो गर्गेभ्य आगतं पश्चगर्गमयम् / अद्विरिति किम् / पञ्चसु कपालेषु संस्कृतं पश्चकपालम् तस्येदं पाञ्चकपालम् / एवं त्रैवेदम् / माजितादित्येव / द्वौ रथौ वहति द्विरथ्यः / ' वहति / इत्यादिना यः / इत्यपत्यादिसाधारणाः प्रत्ययाः / 1104 प्राग्वतः स्त्रीपुंसाद नञ् स्नञ् // 6 / 1 / 28 // प्राग्वतो येऽर्थास्तेष्वनिदम्यणपवादे च स्त्रीशद्धात् पुंस्शद्धाच यथासंख्यं न स्नञ् प्रत्ययौ स्याताम् / स्त्रिया अपत्यं स्त्रैणः / पैांस्नः / अकारो मित्कार्यार्थः / 1105 त्वे वा // 6 / 1 / 26 / / स्त्रीशद्वात् पुंस्शद्धाच्च त्वे त्वप्रत्ययविषये 1 यत्रो डायन च वा इति वा डायनि दैव्यायनीत्यपि /