________________ 238 सिद्धहैमबृहत्पक्रिया [तद्धित परस्य पञ्चमस्यान्तस्थायाश्च सरूपे वर्णे परे लुग्वा स्यात् / आदित्यः देवता अस्य आदित्यः,आदित्य्यो वा स्थालीपाकः। पत्युत्तरपद-बृहस्पतेरपत्यं बार्हस्पत्यः। अण. पवादे च आदित्यस्यापत्यमादित्ययः। यमस्यापत्यं याम्यः। अत्र परत्वात् 'अत इञ्' इतीबू स्यात् / वनस्पतीनां समूहो वानस्पत्यम् / अत्राचित्तलक्षण इकण स्यात् / ज्यो हि माग्जितीयमणं बाधित्वा सावकाश इति अणपवादग्रहणम् / अण्ग्रहणं किम् / वास्तोष्पत्यभार्यः। असत्याग्रहणे स्वापवादविषयेऽप्यस्य समावेशे सति 1094 तद्धितः स्वरवृद्धिहेतुररक्तविकारे // 3 / 2 / 56 // स्वरस्थानाया वृद्धों हेतुस्तद्धितो रक्ताद्विकाराचान्यत्रार्थे विहितस्तदन्तः परतः स्त्रीलिङ्गः पुंवन्न स्यात् / इत्यादिना पुंवद्भावनिषेधात् वास्तोष्पत्यामार्य इति स्यात् / अनिदमीति किम् / आदित्यस्येदमादितीयम् / ___ 1095 बहिषष्टीकण् च // 6 / 1 / 16 // बहिस् इत्येतस्मात् माग्जितीयेऽर्थे टीकण प्रत्ययः स्यात्, चकाराद् व्यश्च / 1096 प्रायोऽव्ययस्य // 74 / 65 // अव्ययस्यापदसंज्ञकस्य तद्धिते परेऽन्त्यस्वरादेः प्रायो लुक् स्यात् / बहिर्जातो बाहीकः, बाह्यः / बाह्या / टकारो ङन्यर्थः / बाहिकी। णकारो णित्कार्यार्थः / 1097 कल्यग्नेरेयण // 6 / 1 / 17 / / कलि अग्नि इत्येताभ्यां प्राग्जितीयेऽर्थे - निदम्यणपवादे च एयण प्रत्ययः स्यात् / कलिदैवताऽस्य कालेयम् / आग्नेयम् / अणपवादे च कलेरागतं कालेयम्। आग्नेयम् / अत्र 'नृहेतुभ्यः' इत्यादिना रूप्यमयटौ स्याताम् / अन्ये तु जितार्थात् परेष्वपि प्राग्वतीयेष्वर्थेषु एयणमिच्छन्ति / कलये हितं कालेयम् / आग्नेयम् / कलेनिमित्तम् उत्पातः संयोगो वा कालेयः। आग्नेयः। 1098 पृथिव्या भाञ् // 6 / 1118 // पृथिवीशद्धात् प्राग्जितीयेऽर्थेऽनिदम्यणपवादे च बाज इत्येतौ प्रत्ययौ स्याताम् / पृथिव्यां भवः पार्थिवः। जाबोः स्त्रियां विशेषः / पार्थिवा / पार्थिवी / अणपवादे च पृथिव्या अपत्यं पार्थिवः / पार्थिवा / पार्थिवी / अत्र एयण स्यात् / ङी बहुषुलुप संघादिष्वणिति प्रयोजनमविधानस्य / 1099 उत्सादेरञ् // 6 / 1 / 19 / / उत्स इत्येवमादिभ्यः शब्देभ्यः प्राग्जितीयेऽर्थेऽनिदम्यणपवादे चात्र प्रत्ययः स्यात् / उत्सस्येदमौत्सम् / औदपानम्।