SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ 240 सिद्धहैमबृहत्मक्रिया. [तद्धित भावे यथासंख्यं नज्स्नमत्ययौ वा स्याताम् / स्त्रिया भावः स्त्रैणं / स्त्रीत्वं। स्त्रीता। पैांस्नम् / पुंस्त्वम् / पुंस्ता / पुनर्वाग्रहणं प्रत्ययविकल्पार्थम् / 1106 गोः स्वरे यः // 6 / 1 / 27 // गोशद्धात् स्वरादितद्धितमसङ्गे यः प्रत्ययः स्यात् / गोरपत्यं गव्यः। स्वर इति किम् / गोभ्यो हेतुभ्य आगतं गोरूप्यम् / 1107 ङसोऽपत्ये // 6 / 1 / 28 // अणादयोऽनुवर्तन्ते / ङसः षष्ठयन्तानाम्नोऽपत्येऽर्थे यथाभिहितमणादयः प्रत्ययाः स्युः। 1108 अस्वयंभुवोऽव् // 7 // 470 // स्वयंभूशद्ववर्जितस्यापदसंज्ञकस्योवर्णान्तस्य तद्धिते परे अव् इत्यादेशः स्यात् / उपगोरपत्यमोपगवः। अपत्य इति अपत्यमा विवक्षितं न लिङ्गसंख्यादि / तेन द्वयोर्बहुषु स्त्रीलिङ्गादौ च भवति / औपगवौ / औपमवाः। औपगवी / इत्यादि / डस इति किम् / देवदत्तेऽपत्यम् / अपत्य इति किम् / भानोरयं भानवीयः। तस्येदम्' इत्येवाणादिसिद्धौ अपत्यविवक्षायां तदपवादबाधनार्थ वचनम् / तेन भानोरपत्यं भानवः।. अत्र 'दोरीय' इतीयो न भवति / कम्बल उपगोरपत्यं देवदत्तस्येत्यत्र तु असामर्थ्यान्न भवति / 1109 पौत्रादि वृद्धम् // 6 // 1 // 2 // परमप्रकृतेरपत्यवतो यत्पौत्राधपत्यं तद् वृद्धसंज्ञं स्यात् / 1110 वंश्यज्यायोभ्रात्रोर्जीवति प्रपौत्राद्यस्त्री युवा // 6 / 1 / 3 // वंशे भवो वंश्यः पित्रादिरात्मनः कारणम् / ज्यायान् भ्राता वयोऽधिक एकपितृक एकमातृको वा / प्रपौत्रः पौत्रापत्यम् परमप्रकृतेश्चतुर्थः / स्त्रीवर्जितं प्रपौत्राद्यपत्यं जीवति वंश्ये ज्यायोभ्रातरि वा युवसंज्ञं स्यात् / 1111 सपिण्डे वयःस्थानाधिके जीवदा // 14 // ययोरेकः पूर्वः सप्तमः पुरुषस्तावन्योन्यस्य सपिण्डौ / वयो यौवनादि / स्थानं पिता पुत्र इत्यादि। परमप्रकृतेः स्त्रीवर्जितं प्रपौत्राधपत्यं वयःस्थानाभ्यां द्वाभ्यामप्यधिके सपिण्डे जीवति जीवदेव युवसंज्ञं वा स्यात् / 1 तस्य-तस्येदमित्यणोऽपवादो 'दोरीय' इत्यादिस्तस्य बाधनार्थमन्यथा दुसंशकादपत्यविवक्षायामपि ईय एव स्यात् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy