________________ 236 सिद्धहैमबृहत्पक्रिया. [समासाश्रयविधि 1083 अन्यत्यदादरा // 3 / 2 / 152 // अन्यशब्दस्य त्यदाश्च हक्दृशदृक्षेषूत्तरपदेषु आकारोऽन्तादेशः स्यात् / अन्य इव दृश्यते अन्यादृक् / अन्यादृशः। अन्यादृक्षः। एवं त्यादृक् / त्यादृशः त्यादृक्षः। तादृक् / तादृशः। तादृक्षः। इत्यादि / कथं यत्परिमाणमस्य यावान् एवं तावान् , एतावान् ? ' यत्तदेतदो डावादिः' इति डावतो भविष्यति / 1084 इदं किमीत्की // 3 // 2 // 153 // इदंशब्दः किंशब्दश्च दृक्शदृक्षेषत्तरपदेषु परेषु यथासंख्यमीकाररूपः कीकाररूपश्च स्यात् / अयमिव दृश्यते ईदृक् / ईदृशः / ईदृक्षः / क इव दृश्यते कीदृक् / कीदृशः / कीदृक्षः। कथं इदं किं वा परिमाणमस्य इयान् कियान् ? -- इदंकिमोऽतुरिय किय चास्य' इत्यादिना भविष्यति / 1085 पृषोदरादयः // 22 // 155 // पृषोदर इत्येवंप्रकाराः शद्धा विहितलोपागमवर्णविकाराः शिष्टैः प्रयुज्यमानाः साधवः स्युः। पृषदुदरमुदरे वास्य पृषोदरः / पृषत उदरं पृषोदरम् / पृषत उद्वानं पृषोद्वानम् / एवं पृषोद्धारम् / अत्र तकारलोपो निपात्यते / जीवनस्य जलस्य मूतः पुटबन्धः जीमूतः। अत्र वनस्य लोपः। वारिणो वाहको बलाहकः / अत्र पूर्वपदस्य बः उत्तरपदादेश्चलः। इत्यादि। बहुवचनमाकृतिगणार्थम् / तेन मुहूर्तमारग्वधोऽश्वत्थामनिर्लयनीत्यादयोऽपि द्रष्टव्याः। 'वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ / धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ' 1086 वावाप्योस्तनिक्रोधाग्नहोर्वषी // 3 // 2 // 156 // अवशब्दस्योपसर्गस्य तनिक्रीणात्योः परयोरपिशब्दस्य च धाग्नहोः परयोर्यथासंख्यं व पि इत्येतावादेशौ वा स्याताम् / वतंसः, अवतंसः। वक्रयः, अवक्रयः / पिहितम् , अपिहितम् / पिधानम् , अपिधानम् / पिदधाति, अपिदधाति / पिनद्धम् , अपिनद्धम् / धातुनियमं नेच्छन्त्येके / पृषोदरादिप्रपञ्च एषः, तेन शिष्टप्रयोगोऽनुसरणीयः। इति श्रीसिद्धहैमबृहत्मक्रियायां समासप्रकरणे समासाश्रयविधयः समाप्ताः // समाप्तं समासप्रकरणम् //