SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 235 मांसपचनम् / मांसस्य पाक: मांस्पाकः, मांसपाक;। अनघनीति किम् / मांसपक्तिः / पचाविति किम् / मांसदाहः ।मांसदहनी। 1078 दिवशब्दात्तीरस्य तारः // 3 / 2 / 142 / / दिक्शब्दात् परस्य तीरशब्दस्योत्तरपदस्य तार इत्ययमादेशो वा स्यात् / दक्षिणस्याः दिशः दक्षिणस्य वा देशस्य तीरं दक्षिणतारम् , दक्षिणतीरम्। दिक्शब्दादिति किम् / गङ्गातीरम् / 1079 ग्रन्थान्ते // 3 / 2 / 147 // ग्रन्थस्यान्तो ग्रन्थान्तः। तद्वाचिन्युत्तरपदेऽव्ययीभावे सहशब्दस्य सादेशः स्यात् / कलामन्तं कृत्वा सकलं ज्योतिषमधीते / एवं सकाष्ठम् / समुहूर्तम् / कलादिशब्दाः कालविशेषवाचिनोऽपि तत्सहचारिषु ग्रन्थेषु वर्तन्त इति ग्रन्थान्तवाचित्वमुत्तरपदस्य / अन्त इत्यव्ययीभावः। कालार्थ आरंभ। 1080 समानस्य धर्मादिषु // 3 / 2 / 149 / / समानशब्दस्य धर्मादिषूत्तर बहुवचनमाकृतिगणार्थम् / अन्ये तु ( धर्मादिगणे ) धर्मादिषु वचनान्तेषु नवसु विकल्पमिच्छन्ति / सधर्मा, समानधर्मेत्यादि / अपरे तु नामादिषु बन्धुपर्यन्तेषु द्वादशस्वेव समानस्य सभा नित्यमिच्छन्ति अन्येषु तु नेच्छन्त्येव / सधर्मसपक्षादिशब्दास्तु सहशब्देन समानपर्यायेण कृतसादेशेन साधयन्ति / समानशब्दप्रयोगे तु समानधर्मा, समानपक्ष इत्यायेव मन्यन्ते / कथं समानोदरे जातः सोदयः, समाने तीर्थे वसति सतीर्थ्य इति ? ' सोदर्यसमानोद' इति -- सतीर्थ ' इति च निपातनाद् भविष्यतः। 1081 सब्रह्मचारी // 3 / 2 / 150 // सब्रह्मचारीति निपात्यते / समानो ब्रह्मचारी समाने ब्रह्मण्यागमे गुरुकुले वा व्रतं चरतीति सब्रह्मचारी। निपातनादेव व्रतशब्दस्यापि लोपः। 1082 दृक्दृशदृक्षे // 3 / 2 / 151 // दृक् दृश दृक्ष इत्येतेषूत्तरपदेषु समानस्य सादेशः स्यात् / समान इव दृश्यते सहक, सदृशः, सदृक्षः। दृशदृक्षसाहचर्यात् टक्सक्मत्ययसहचरितकिबन्तस्यैव दृशो ग्रहणात् इह न भवति / समाना हक् समानदृक् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy