________________ 234 सिद्धहैमबृहत्पक्रिया. [समासाश्रयविधि कुत्सितः अक्षः काक्षः। पथिशब्दनिर्देशात्तत्पर्यायेऽव्युत्पन्ने पथशब्दे न भवति / कुत्सितः पथः कुपथः, कुपथं वनम् / अनीषदर्थाथै वचनम् / / 1071 पुरुषे वा // 3 / 2 / 135 // कुशब्दस्य पुरुषशब्दे उत्तरपदे कादेशो वा स्यात् / कुत्सितः पुरुषः कापुरुषः, कुपुरुषः। कुत्सिताः पुरुषा अस्मिन् कापुरुषः , कुपुरुषो ग्रामः / अनीषदर्थे विकल्पोऽयम् / ईषदर्थे तु परत्वादुत्तरेण नित्यमेव / तत्रापि विकल्प एवेति कश्चित् / ईषत्पुरुषः कापुरुषः, कुपुरुषः। 1072 अल्पे // 3 / 2 / 136 // ईषदर्थे वर्तमानस्य कुशब्दस्योत्तरपदे कादेशः स्यात्। ईपन्मधुरं कामधुरम् / स्वरादावपि परत्वादीषदर्थे कादेश एव भवति। ईषदम्लं काम्लम् / एवं काच्छम् / 1073 काकवौ वोष्णे // 3 / 2 / 137 // कुशब्दस्योष्णशब्दे उत्तरपदे का कव इत्येतावादेशौ वा स्याताम् / ईषत् कुत्सितं वा उष्णं कोष्णं कवोष्णम् / ईषत् कुत्सितं वा उष्णमत्र कोष्णः कवोष्णो देशः। पक्षे यथाप्राप्तमिति तत्पुरुषे कदुष्णम् / बहुव्रीहौ तु न कदादेशः / कूष्णो देशः / अन्यस्त्वनावपीच्छति / काग्निः कवामिः कदग्निः। 1074 कृत्येऽवश्यमो लुक् // 3 / 2 / 138 // अवश्यम्शब्दस्य कृत्यप्रत्ययान्ते उत्तरपदे लुक् अन्तादेशः स्यात् / अवश्यकार्यम् / कृत्य इति किम् / अवश्यंलावकः। 1075 समस्ततहिते वा // 3 / 2 / 139 // सम्शब्दस्य तते हिते चोत्तरपदे लुगन्तादेशो वा स्यात् / सततम् , संततम् / सहितम्, संहितम् / 1076 तुमश्च मनकामे // 32 // 140 // तुम्पत्ययान्तस्य सम्शब्दस्य च प्रत्येकं मनसि कामे चोत्तरपदे लुगन्तादेशः स्यात् / भोक्तुं मनोऽस्य भोक्तुमनाः। गन्तुं कामोऽस्य गन्तुकामः / सम्यग्मनोऽस्य समनाः / एवं सकामः। सहशब्देनापि सिद्धौ समः श्रुतिनिवृत्त्यर्थं वचनम् / 1077 मांसस्यानड्यनि पचि न वा॥३।२।१४१।। मांसशब्दस्यानडन्ते घनन्ते च पचावुत्तरपदे लुगन्तादेशो वा स्यात् / मांसस्य पचनं मांस्पचनम् ,