SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् सिद्धहैमबृहत्मक्रिया. 233 1065 नगोऽप्राणिनि वा // 3 / 2 / 127 // अप्राणिन्यभिधेये नग इति वा निपात्यते / न गच्छतीति नगः अगः पर्वतः / नगा अगा वृक्षाः। अमाणिनीति किम् / अगो वृषलः शीतेन / पूर्वेण नित्यमादेशे प्राप्ते विकल्पोऽयम् / 1066 नखादयः // 3 / 2 / 128 // नखादयः शद्धा अकृताकाराधादेशा निपात्यन्ते / नास्य खमस्तीति नखः / न भ्राजते इति नभ्राट् किवन्तः। न पातीति नपात् शत्रन्तः / त्रिलिङ्गोऽयम् / निपातनातु नाभावः / न वेत्तीति नवेदाः। औणादिकोऽस / सत्सु साधुः सत्यः। सांधौ यः। न सत्यः / असत्यः। नासत्यौ नासत्याः / न मुञ्चतीति नमुचिः / औणादिकः किः / नास्य कुलमस्तीति नकुलः / कथं न न भ्राजते किंतु भ्राजत एवेति नभ्राट् ? पृषोदरादित्वादेकस्य नो लोपे भविष्यति / एवं न न पातीति नपात् इत्यादयः / न पुमान् न स्त्रीति नपुंसकम् / अत एव निपातनात् स्त्रीपुंसयोः पुंसकादेशः। बहुवचनमाकृतिगणार्थम् / तेन नास्तिकः, नभः, नारङ्गमित्यादयो द्रष्टव्याः। 1067 रथवदे // 3 / 2 / 131 // रथवदयोरुत्तरपरयोः कुशब्दस्य कदादेशः स्यात् / कुत्सितो रथः कद्रथः / कुत्सितो रथोऽस्य कद्रथः / कुत्सितो वदोऽस्य कद्वदः / तत्पुरुष एवेच्छन्त्येके / अन्यत्र कुरथो राजा / कुवदो मूर्खः / 1068 तृणे जातौ // 3 / 2 / 132 // कुशब्दस्य तृणे उत्तरपदे जातावभिधेयायां कदादेशः स्यात् / कुत्सितं तृणमस्याः कत्तृणा नाम रौहिषाख्या तृणजातिः। जाताविति किम् / कुत्सितानि तृणानि कुतृणानि / 1069 कत्त्रिः // 3 / 2 / 133 // कुशब्दस्य किशब्दस्य वा त्रिशब्दे उत्तरपदे कदादेशो निपात्यते / कुत्सिताः के वा त्रयः कत्रयः / कुत्सिताः के वा त्रयोऽस्य कत्रिः / किमो नेच्छन्त्यन्ये / किंत्रयः। 1070 काक्षपथोः // 3 / 2 / 134 // अक्ष पथिन् इत्येतयोरुत्तरपदयोः कोः का इत्ययमादेशः स्यात् / अक्षशब्दस्याकारान्तस्य कृतसमासान्तस्य चाविशेषण ग्रहणम् / कुत्सितोऽक्षः पाशकादिः काक्षः। कुत्सितमक्षमिन्द्रियं काक्षम् / कुत्सितोऽक्षो यस्य कालो रथः। कुत्सितमलि अक्षं वाऽस्य काक्षः। कुत्सितः पन्थाः कापथम् / कुत्सितः पन्था अस्मिन् कापथो देशः / साकोऽपि भवति / ककु:
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy