________________ 231 प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. न्तस्य मो न भवति / गीमन्यः / ' स्वरस्य इस्वदीर्घप्लुताः' इति इस्वः स्वरस्यैव / कृद्ग्रहणे सति गतिकारकस्यापि ग्रहणात् कूलमुद्रुजः, कूलमुद्वह इत्यत्रापि भवति / 1054 सत्यागदास्तोः कारे // 3 / 2 / 112 // सत्यादिभ्यः कारशब्दे उत्तरपदे मोऽन्तः स्यात् / सत्यं करोति सत्यस्य कार इति वा सत्यकारः। एवमगदंकारः। अस्तुंकारः / अस्त्विति निपात; क्रियाप्रतिरूपकोऽभ्युपगमे वर्तते / 1055 लोकंपृणमध्यंदिनानभ्याशमित्यम् // 3 / 2 / 113 // एते शब्दाः कृतपूर्वपदमान्ता निपात्यन्ते / लोकं पृणति लोकस्य वा पृणः लोकंपृणः / मध्यं अनभ्याशं दूरमित्यं गन्तव्यमस्यानभ्याशमित्यः। दूरतः परिहर्तव्य इत्यर्थः / अनभ्याशेनेत्योऽनभ्याशमित्य इति वा दूरेण प्राप्यो न त्वन्तिकेनेत्यर्थः / अन्ये तु पीणातेर्णिगन्तस्याचि इस्वत्वं निपात्य लोकपिणः लोकपीणक इत्यर्थ इत्युदाहरन्ति / कश्चित्त्वकृतहस्वत्वमेव मन्यते लोकंपीणः / 1056 भ्राष्ट्राग्नेरिन्धे // 3 / 2 / 114 // भ्राष्टाग्निभ्यामिन्धशब्दें उत्तरपदे मोऽन्त; स्यात् / भ्राष्टस्येन्धः भ्राष्ट्रमिन्धः / एवमग्निमिन्धः / 1057 अगिलादगिलगिलगिलयोः॥३२११॥ गिलान्तशब्दवर्जितात् पूर्वपदात् परे गिले गिलगिले चोत्तरपदे मोऽन्तः स्यात् / तिमि गिलतीति तिमिगिलः। तिमीनां गिलगिलः तिमिगिलगिलः। गिलगिलशब्दे गिलशब्दो नोत्तरपदमिति गिलगिलोपादानम् / गिलशब्दस्य स्वरान्तस्य पयुदासेन स्वरान्ताद्विधिस्तेन व्यंजनान्तान भवति / धूर्गिलः / अगिलादिति किम् / तिमिगिलं गिलति तिमिगिलगिलः / गिलं गिलति गिलगिल इत्यत्र गिलगिलेति निर्देशादेव मोऽन्तो न संभवति / अगिलादिति तु निषेधो गिलान्तस्यापि निवृत्त्यर्थः। 1058 भद्रोष्णात्करणे // 3 / 2 / 116 // भद्रशब्दादुष्णशब्दाच करणशब्दे 1059 नवाऽखित्कृदन्ते रात्रेः // 3 / 2 / 117 // रात्रिशब्दस्य खिर्जितकृदन्ते उत्तरपदे मोऽन्तो वा स्यात् / रात्रौ चरति रात्रिंचरः।रात्रिचरः। रात्रेः करणं रात्रिकरणम्। रात्रिकरणम्। खिद्वर्जनं किम् / रात्रिमन्यमहः / खित्यनव्ययस्थेत्यादिनों