SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्मक्रिया. [समासाश्रयविधि 1048 मन्यौदनसक्तुबिन्दुवज्रभारहारचीवधगाहे वा // 3 / 2 / उदौदनः , उदकौदनः / उदसक्तुः , उदकसक्तुः / उदबिन्दुः , उदकबिन्दुः / उदवज्रः, उदकवज्रः। उदभारः, उदकभारः। उदहारः, उदकहारः। उदवीवधः, उदकवीवधः / उदगाहः , उदकगाहः / अपूर्यार्थी यत्नः। 1049 नाम्न्युत्तरपदस्य // 3 / 2 / 107 // उदकशब्दस्य पूर्वपदस्योत्तरपदस्य च संज्ञायां विषये उद इत्ययमादेशः स्यात् / उदमेघो नाम यस्यौदमेधिः पुत्रः / उदपानं निपानम् / उत्तरपदस्य-लवणोदः, कालोदः समुद्रः। 1050 ते लुग्वा // 3 / 2 / 108 // नामविषये ये पूर्वोत्तरपदे ते लुग्वा स्याताम् / देवदत्तः-देवः, दत्तः। सत्यभामा-सत्या, भामा / शब्दसाम्येऽपि प्रकरणादेरर्थविशेषनिश्चयः। 1051 घन्तरनवर्णोपसर्गादप ईप् // 3 / 2 / 109 // द्वि अन्तर् इत्येताभ्यामनवर्णान्तेभ्यश्चोपसर्गेभ्यः परस्याप् इत्येतस्योत्तरपदस्य ईए इत्ययमादेशः स्यात् / द्विधा गता आपोऽस्मिनिति द्वीपम् / एवमन्तरीपम् / प्रतीपम् / समीपम् / उपसर्गादिति किम् / शोभना आपः स्वापः। पूजिता आपः अत्यापः / स्वती पूजायां नोपसर्गों / अत एव समासान्तो न भवति / अनवर्णेति किम् / पापम् / परापम् / संश्लिष्टा आगता आपोऽस्मिन् समापो देवयजनम् / 1052 अनोर्देश उप् // 3 / 2 / 110 // अनोः परस्यापो देशेऽभिधेये उप इत्ययमादेशः स्यात् / अनुगता आपोऽस्मिन्नन्पो देशः / देश इति किम् / अन्वीपं वनम् / कथं कूपः सूपः यूपः ? / पृषोदरादित्वात् / 1053 खित्यनव्ययारुषो मोऽन्तो हस्वश्च // 3 / 2 / 111 // अनव्ययस्य अर्थात् स्वरान्तस्यारुषश्च खित्मत्ययान्ते उत्तरपदे मोऽन्तः स्यात्, यथासंभवं इस्वश्वान्तादेशः / ज्ञमात्मानं मन्यते झंमन्यः। खट्वंमन्यः। रात्रिमन्यमहः। परत्वात् बदायो इस्वत्वेन बाध्यते / कालिमन्या। अरुस्-अरुंतुदः / खितीति किम् / ग्रहणम् / न ह्यव्ययात् परः खित्संभवति / अरुःशब्दोपादानादनव्ययस्य व्यंजना
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy