________________ प्रकरणम्] सिद्धहैमबृहत्मक्रिया. 229 1043 शिरसःशीर्षन् // 3 / 2 / 101 // शिरस् शब्दस्य शीर्षन्नादेशो भवति ये परे। शिरसि भवः शीर्षण्यः स्वरः। य इत्येव / शिरस्तः। निरनुबंधग्रहणे न सानुबंधस्येति न्यायानेह-शिर इच्छति शिरस्यति / तथा हस्तिनः शिर इव शिरो यस्य स हस्तिशिराः, तस्यापत्यं स्त्री वाहवादित्वादिनि ' शीर्षः स्वरे तद्धिते ' इति शिरसः शीर्षादेशे ' अनार्षे वृद्धे' इत्यादिना चेत्रः ष्यादेशे हास्तिशीर्थ्यो / अत्र ष्यशीर्षादेशयोः स्थानिवद्भावात शीर्षन्नादेशः स्यात् / शिरस इति चादेशेन संबध्यते न प्रत्ययेन, तेन हास्तिशीषिरित्यादौ समाससंबंधिन्यपि तद्धिते उत्तरसूत्रेण शीर्षादेशः स्यात् / 1044 केशे वा ॥३।२।१०२॥शिरसः केशविषये य प्रत्यये परे शीर्षनादेशो वा स्यात् / शिरसि भवाः शीर्षण्याः, शिरस्याः केशाः / केचित्तु 'इल्वला मृगशीर्षस्य शिरस्यास्तारकाः स्मृताः' इति प्रयोगदर्शनात् केशादन्यत्रापि विकल्पमिच्छन्ति, शाखादियप्रत्यये च शीर्षन्निति नेच्छन्त्येव / शिरसस्तुल्यः शिरस्यः / शाखादित्वाधः। 1045 शीर्षः स्वरे तद्धिते // 3 / 2 / 103 // शिरस्शद्धस्य स्वरादौ तद्धिते शीर्ष इत्यादेशः स्यात् / हस्तिशिरसोऽपत्यं हास्तिशीर्षिः। स्वर इति किम् / शिरस्कल्पः। तद्धित इति किम् / शिरसा / कथमिल्वला मृगशीर्षस्येति ? शीर्षशद्धः प्रकृत्यन्तरमस्ति / शीर्षच्छेद्यं परिच्छिद्येति / अनेनैव च सिद्धे उक्तविषये शिरसः प्रयोगनिवृत्त्यर्थं वचनम्। 1046 उदकस्योदः पेषंधिवासवाहने // 3 / 2 / 104 // उदकशद्वस्य पेषमादिषूत्तरपदेषु उद इत्ययमादेशः स्यात्। उदकेन पिनष्टि उदपेषं पिनष्टि तगरम् / उदकं धीयतेऽस्मिनिति उदधिर्घटः / उदकस्य वासः उदवासः। उदकं वाहनमस्येति उदवाहनः / अनामार्थ वचनम् / नाम्न्युत्तरेणैव सिद्धम् / / 1047 वैकव्यंजने पूर्ये // 3 / 2 / 105 // उदकशब्दस्य पूरयितव्यवाचिन्येकव्यंजनेऽसंयुक्तव्यंजनादावुत्तरपदे उदादेशो वा स्यात् / उदकुम्भः, उदककुम्भः। व्यञ्जन इति किम् / उदकामत्रम् / एकेति किम् / उदकस्थालम् / पूर्य इति किम् / उदकपर्वतः /