________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 227 शतात् संख्यायामुत्तरपदे स्युः अनशीति बहुव्रीहौ-अशीतिबहुव्रीहिसमासविषय अष्टादश / द्वित्र्यष्टानामिति किम् / पञ्चदश / प्राक्शतादिति किम् / द्विशतम् / अनशीतिबहुव्रीहाविति किम् / यशीतिः / द्वौ वा त्रयो वा द्वित्राः / माक्शतादित्यवधेः संख्यापरिग्रहादिह न भवति / द्वैमातुरः। 1035 चत्वारिंशदादौ वा // 3 / 2 / 93 // द्वित्यष्टानां प्राक् शताचत्वारिंशदादौ संख्यायामुत्तरपदे यथासंख्यं द्वा त्रयस् अष्टा इत्येते आदेशा वा स्युः अनशीतिबहुव्रीहौ / द्वाभ्यामधिका द्वा च चत्वारिंशच्चेति वा द्वाचत्वारिंशत् , द्विचत्वारिंशत् / त्रयश्चत्वारिंशत् , त्रिचत्वारिंशत् / अष्टाचत्वारिंशत् , अष्टचत्वारिंशात् / पूर्वेण नित्यं प्राप्ते विकल्पार्थमिदम् / / 1036 हृदयस्य हल्लासलेखाण्ये // 3 / 2 / 94 // हृदयशवस्य लासलेखयोरुत्तरपदयोरणि ये च प्रत्यये हृदित्ययमादेशः स्यात् / हृदयस्य लासः हृल्लासः। हृदयं लिखतीति हल्लेखः / अणसंनिधानाल्लेखशद्धोऽणन्तो गृह्यते / तेन घबन्ते प्रियः हृद्यः। अणीत्येव सिद्ध लेखग्रहणं ज्ञापकम् 'उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणं न भवतीति / खित्यनव्ययस्येत्यादौ तु असंभवात् तदन्तग्रहणम् / हृदयशद्वपर्यायेण हृच्छब्देनैव सिद्धे हृदादेशविधानं लासादिषु हृदयशद्धप्रयोगनिवृत्त्यर्थम् / अन्यत्र तूभयं प्रयुज्यते। सौहार्यम् / सौहृदय्यम् / इत्यादि / 1037 पदः पादस्याज्यातिगोपहते // 3 / 2 / 95 // पादशदस्याज्यादिपूत्तरपदेषु पद इत्ययमादेशः स्यात् / पादाभ्यामजति अतति चेति औणादिके इणि पदाजिः, पदातिः / अत एव निदेशादजेवीं न भवति / पादाभ्यां गच्छति पदगः। 'नानो गम' इत्यादिना डः। पादाभ्यामुपहतः पदोपहतः। पादशद्वसमानार्थः पदशब्दोऽस्ति, आज्यादिषु तु पादशद्धप्रयोगनिवृत्यर्थ वचनम् / कथं दिग्धश्चासौ पादश्च दिग्धपादः तेनोपहतः दिग्धपादोपहतः / उत्तरपदसंनिधापितेन पूर्वपदेन भवति / 1038 हिमहतिकाषिये पद् // 3 / 2 / 96 // हिमादिफ़्तरपदेषु पादस