SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ 226 सिद्धहैमवृहत्पक्रिया. [समासाश्रयविधि इत्यजन्ते काशशब्दे उत्तरपदे परे दीर्घोऽन्तादेशः स्यात् / निकाशते नीकाशः। 1030 दस्ति // 3288 // दा इत्येतस्य यस्तकारादिरादेशस्तस्मिन् परे नाम्यन्तस्योपसर्गस्य दीर्घान्तादेशः स्यात् / नीत्तम् / वीत्तम् / द इति किम् / वितीर्णम् / तीति किम् / सुदत्तम् / नामिन इत्येव / प्रत्तम् / 1031 अपील्वादेर्वहे // 3 / 2 / 89 // पील्लादिवर्जितस्य नाम्यन्तस्य वहे उत्तरपदे दीर्घोऽन्तादेशः स्यात् / वहतीति वहम् / अच् प्रत्ययः / ऋषीणां वहम् ऋषीवहम् / मुनीवहम् / कपीवहम् / एवंनामानि नगराणि / घान्ते तु वहशब्दे ऋषीवहः / अपील्वादेरिति किम् / पीलुवहम् / 1032 शुनः // 3 / 2 / 90 // श्वन इत्येतस्योत्तरपदे दीर्घोऽन्तादेशः स्यात् / शुनोदन्तः श्वादन्तः / एवं श्वादंष्ट्रा / बहुलाधिकारात् कचिद्विकल्पः / श्वापुच्छम् , श्वपुच्छम् / कचिद्विषयान्तरे / शुनः पदमिव पदमस्य श्वापदम् व्याघ्रादिः / कचिन्न भवति / श्वकल्पः। 1033 एकादश षोडश षोडन् षोढा षड्ढा // 3 / 2 / 91 // एकादयः शद्धा दशादिषु उत्तरपदादिषु कृतदीर्घत्वादयो निपात्यन्ते / एकोत्तरा दश, एकं च दश च वा एकादश / अत्रैकस्य दशशब्दे उत्तरपदे दीर्घः। षडुत्तरा दश षट् च दश च वा षोडश / अत्र षषोऽन्तस्योत्वम् / उत्तरपददकारस्य च डकारः। षड् दन्ता अस्य षोडन् / अत्र दन्तशद्धस्य दत्रादेशे कृते दस्य डत्वं षषोऽन्तस्योत्वम् / एवं षोडन्तौ षोडन्तः / स्त्रियां तु तु षोडती / अन्ये तु दत्रादेशे कृते षोडन्निति शान्तरं नकारान्तं राजन्शद्धवान्नपातयन्ति / ततश्च पोडानमिच्छतीति क्यनि नकारलोपे ईत्वे च पोडीयतीति सिध्यतीति मन्यन्ते / षड्भिः प्रकारैः षोढा, षड्ढा। अत्र धापत्यये षषोऽन्तस्य वोत्वं धकारस्य तु नित्यं ढत्वम् / यतु षड्वेति रूपं न तत् धापत्यये किंतु षड् दधाति धयति वेति ' आतो डोऽवावामः' इति डे कृते स्त्रियामापि च भवति / निपातनस्य चेष्टविषयत्वादत्रोवडत्वे न भवतः / 1034 वित्र्यष्टानां द्वात्रयोऽष्टाः प्राक्शतादनशीतिबहुव्रीहौ // 3 // 2292 // द्वि त्रि अष्टन् इत्येतेषां यथासंख्यं द्वा त्रयस् अष्टा इत्येते आदेशाः प्राक्
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy