________________ प्रकरणम् ] सिद्ध है नबृहत्मक्रिया. 225 1026 स्वामिचिन्हस्याविष्टाष्टपञ्चभिन्नच्छिन्नच्छिद्रसुवस्वस्तिकस्य कर्णे // 3 / 2 / 84 // स्वामी चिन्यते येन तत् स्वामिचिन्हम् / तद्वाचिनो विष्टादिवर्जितस्य कर्णशब्दे उत्तरपदे परे दीर्घोऽन्तादेशः स्यात् / दात्रमिव दात्रम् / दात्रं चिन्हं कमै यस्य स दात्रमिव वा करें यस्य स दात्राकर्णः पशुः। एवं शंकूकर्णः। द्विगुणाकर्णः / यगुलाकर्णः / स्वामिविहस्येति किम् / शोभनकर्णः / स्वामिग्रहणं किम् / लम्बकर्णः। चिन्हग्रहणं किम् / वाहनस्य कर्णः वाहनकणेः। विष्टादिवर्जनं किम् / विष्टकर्णः / कर्ण इति किम् / १चक्रसक्थः / 1027 गतिकारकस्य नहितिवृषिव्यधिरुचिसहितनौ कौ // 3 // 2 // ८५॥गतिसंज्ञस्य कारकवाचिनश्च नह्यादिषु किबन्तेषूत्तरपदेषु परेषु दीर्घोऽन्तादेशः स्यात् / उपनह्यति उपनद्यते वा उपानत् / परीणत्। नीत् / प्रादृट् / श्वावित् / नीरुक्। तुरासट् / परीतत् / गमां काविति नलोपः / गतिकारकस्येति किम् / पटुरुक् / केचित्तु रुजाविच्छन्ति न रुचौ / तेन रुजरुच्योर्मतभेदेन विकल्पः सिद्धः। निरुक् / नीरुक् / काविति किम् / उपनद्धम् / इह किग्रहणादन्यत्र धातुग्रहणे तदादिविधिलभ्यते / तेनायस्कृतम् अयस्कार इत्यादौ सकारः सिद्धो भवति / अन्यथा ह्ययस्कृदित्यत्रैव स्यात् / - 1028 घन्युपसर्गस्य बहुलम् // 3 / 2 / 86 // घअन्ते उत्तरपदे परे उपसर्गस्य बहुलं दीर्घोऽतादेशः स्यात् / नीक्लेदः। नीवारः। प्रावारः। कचिन्न भवति। विषदनं विषादः / निषादः / कचिद्विकल्पः / प्रतीवेशः / प्रतिवेशः / कचिद्विषयभेदेन / प्रासादो गृहम् / उपसर्गस्येति किम् / चन्दनसारः। घनीति किम् / अवसायः / बहुलवचनादनुपसर्गस्यापि अघव्यपि च भवति / दक्षिणापथः / कचिद्विकल्पः / अन्धतमः, अन्धातमः। कचिद्विषयभेदेन / अधीदन्तः। अधीकर्णः। अधीकण्ठः / अधीऽपादः। एते आधिक्ये / अन्यत्र अधिदन्त इत्यादि भवति / कचिदनुत्तरपदेऽपि विकल्पः / पूरुषः पुरुषः। काशशब्दे च घअन्ते विकल्पः / नीकाशः, निकाशः / अजन्ते तूत्तरो विधिः। 1029 नामिनः काशे // 3 / 287 // नाम्यन्तस्योपसर्गस्य 'अच्' 5-1-49 1 चक्रं सक्थनि अस्य 'सक्थ्यक्ष्णः स्वागे टः' / तुरेर्जुहोत्यादिपाठात् तुतोर्ति 'नाम्युपान्त्य' इति कः / तुर सहति तुरासद / तुराताडिति तु छान्दसः॥