SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ 224 सिद्धहैमबृहत्पक्रिया. [समासाश्रयविधि - 1018 नाम्नि // 3 // 2 // 7 // अष्टनशद्धस्योत्तरपदे परे संज्ञायां दीर्घः स्यात् / अष्टौ पदान्यत्र अष्टापदः कैलासः / अष्टापदं सुवर्णम् / अष्टावक्रो मुनिः! नाम्नीति किम् / अष्टगुणमैश्वर्यम् / __1019 कोटरमिश्रकमिध्रकपुरगसारिकस्य वणे // 3 / 276 // कोटरादीनां कृतणत्वे वनशब्दे उत्तरपदे दीर्घः स्यात् संज्ञायाम् / कोटरावणम् / मिश्रकावणम् / सिधकावणम् / पुरगावणम् / सारिकावणम् / पूर्वपदस्थान्नाम्न्यग इति णत्वे सिद्धे कृतणत्वस्य वनशद्धस्य निर्देशो नियमार्थः, तेन पूर्वपदस्थादिति सूत्रेण वनशब्दस्य णत्वमाकारसंनियोग एव भवति / ततश्च कुबेरवनमित्यादौ संज्ञायामपि णत्वं न भवति / 1020 अञ्जनादीनां गिरौ // 3 / 277 // अञ्जनादीनां गिराकुत्तरपदे दीर्घः स्यान्नान्नि / अञ्जनागिरिः। बहुवचनमाकृतिगणार्थम् / 1021 अनजिरादिबहुस्वरशरादीनां मतौ // 3 / 2 / 78 // अजिरादिवजबहुस्वराणां शरादीनां च मतो प्रत्यये दीर्घः स्यान्नाम्नि / बहुस्वर-उदुंबरावती। शरादि-शरावती / अजिरादिराकृतिगणः / नाम्नीत्येव / वलयवती कन्या / 1022 ऋषौ विश्वस्य मित्रे // 32 // 79 // विश्वशदस्य मित्रे उत्तरपदे ऋषावभिधेये संज्ञायां दीर्घः स्यात् / विश्वामित्रो नामर्षिः / ऋषाविति किम् / विश्वमित्रो माणवकः / नाम्नीत्येव / विश्व मित्रमस्य विश्वमित्रो मुनिः। - 1023 नरे // 32 // 80 // विश्वशदस्य नरशब्दे उत्तरपदे संज्ञायां दीर्घः स्यात् / विश्वे नरा अस्य विश्वानरो नाम कश्चित् / नर इति किम् / विश्वसेनः। नाम्नीत्येव / विश्वनरो राजा। . 1024 वलच्यपित्रादेः // 3 / 2 / 82 // वलच्प्रत्यये परे पित्रादिवर्जितानां स्वरान्तानां शद्धानां दीर्घोऽन्तादेशः स्यात् / आसुतिः सुरा साऽस्यास्तीति आमुतीवलः। एवं कृषीवलः / अपित्रादेरिति किम् / पितृवलः। चकारः किम् / उत्तरपदे मा भूत् / कायवलम् / 1025 चितेः कचि // 32 // 83 // चितिशद्धस्य कचि प्रत्यये परे दीर्घः स्यात् / एका चितिरस्मिन् एकचितीकः /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy