SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 223 मता, पचन्मता पचन्तीमता। हत-पचन्ती चासौ हता च पचन्तिहता, पचद्धता, पचन्तीहता / ब्रुवादयः कुत्साशद्वाः, 'निन्धं कुत्सनैरिति च समासः। ऋदुदिदिति किम् / कुमारितरा / ( अत्रोत्तरसूत्रेण इस्वः ) एकार्थ इत्येव / पचन्त्या हता पचन्तीहता। तरादिष्विति किम् / पचत्पाशा / 1014 डन्यः॥३।२।६४॥ ङयन्तस्य परतः स्त्रीलिङ्गस्य तरादिषु प्रत्ययेषु ब्रुवादिषु चोत्तरपदेषु एकार्थेषु इस्वोऽन्तादेशः स्यात् / गौरितरा / गौरितमा। नर्तकिरूपा। कुमारिकल्पा। ब्राह्मणिब्रुवा / गागिचेली / ब्राह्मणिगोत्रा / गार्गिमता / गौरिहता। परत्वाद्यथाप्राप्तं पुंवद्भावं बाधते / डन्य इति किम् / मद्रिकातरा / परतःस्त्रिया इत्येव / बदरीतरा / एकार्थ इत्येव / ब्राह्मण्या हता ब्राह्मणीहता। 'नवैकस्वराणाम्' इत्युत्तरत्र वचनादनेकस्वरस्यैवायं विधिः / 1015 भोगवद्गौरिमतोर्नानि // 32 // 65 // भोगवद्गोरिमतोः संज्ञायां वर्तमानयोर्जीप्रत्ययस्य तरादिषु प्रत्ययेषु ब्रुवादिषु चोत्तरपदेषु एकार्थेषु इस्वः स्यात / भोगवतितरा / गौरिमतितमा / भोगवतिरूपा / गौरिमतिकल्पा। भोगवति वा / गौरिमतिचेली। भोगवतिगोत्रा। गौरिमतिमता / भोगवतिहता / नाम्नीति किम् / भोगवतितरा, भोगवत्तरा, भोगवतीतरेत्यादि / उदित्वात् पूर्वेण त्रैरूप्यम् / 1016 नवैकस्वराणाम् // 3 // 2 // 66 // बहुवचनात् परतः स्त्रीति निवृत्तम्। सामान्येन तु विधानम् / स्व्येकार्थ इत्यनुवर्तते / एकस्वरस्य डन्यन्तस्य तरादिषु प्रत्ययेषु ब्रुवादिषु चोत्तरपदेषु स्येकार्थेषु इस्वोऽन्तादेशः स्यात् / स्त्रितरा स्वीतरा। ज्ञस्य भार्या ज्ञी, ज्ञितमा, ज्ञीतमा / अस्यापत्यं स्त्री ई, इरूपा, ईरूपा। कस्य भार्या की,किकल्पा, कीकल्पा। जिब्रुवा,ज्ञीब्रुवा / इचेली, ईचेली। किगोत्रा कीगोत्रा। स्त्रिमता, स्त्रीमता। स्त्रिहता, स्त्रीहता। एकस्वराणामिति किम् / कुटीतरा / न्य इत्येव / श्रीतरा। एकार्थ इत्येव / स्त्रिया हता स्त्रीहता / नित्यदितामनेकस्वराणामपीच्छन्त्येके / तन्मते आमलकितरेत्याद्यपि भवति / 1017 ऊङः // 3 / 2 / 67 // ऊङन्तस्य तरादिषु प्रत्ययेषु ब्रुवादिषु चोत्तर. पदेषु स्त्र्येकार्थे इस्वो वा स्यात् / ब्रह्मवन्धुतरा, ब्रह्मबन्धूतरेत्यादि / एकार्थ इत्येव / भीर्वा हता भीरूहता।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy