SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ 222 सिद्धहैमबृहत्मक्रिया. समासाश्रयविधि 1009 भ्रुवोऽच्च कुंसकुटयोः // 2 / 4 / 101 // भ्रूशद्रस्य कुंसकुटयोरुत्तरपदयोः परयोईस्वोऽकारश्च स्यात्। भ्रुकुंसः, भ्रकुंसः / भ्रुकुटिः, भ्रकुटिः। भूकुंसभृकुटिशद्धावपीच्छन्त्यन्ये / __1010 मालेषीकेष्टकस्यान्तेऽपि भारितूलचिते // 2 / 4 / 102 // मालाइषीकाइष्टकाशद्वानां केवलानामन्ते वर्तमानानां च भारिन्तूलचितशब्देषूत्तरपदेषु परेषु इस्वः स्याद्यथासंख्यम् / मालां बिभर्येवंशीलः मालभारी / उत्पलमालभारी / मालभारिणी / उत्पलमालभारिणी। इषीकतूलम् / मुञ्जेषीकतूलम् / इष्टकचितम् / पक्वेष्टकचितम् / इदमेवान्तग्रहणं ज्ञापकम् ग्रहणवता नाम्ना न तदन्तविधिरिति / तेन दिग्धपादोपहतः सौत्रनाडिरित्यादौ पदादेशायनण्प्रत्ययादयो न भवन्ति / 1011 गोण्या मेये // 2 / 4 / 103 // गोणीशद्धस्य मानवाचिन उपचारान्मेये वर्तमानस्य इस्वः स्यात् / गोण्या मितो गोणिः। मेय इति किम् / गोणी। 1012 वर्चस्कादिष्ववस्करादयः // 3 // 2 // 48 // कुत्सितं वर्ची वर्चस्कम् तदादिष्वर्थेष्ववस्करादयः शद्वाः कृतशपसाद्युत्तरपदाः साधवः स्युः। वर्चस्केऽवस्करः। अवकीर्यतेऽवस्करः अन्नमलम् / तत्संबन्धात्तद्देशोऽप्यवस्करः / अवकरोऽन्यः / अपस्करो रथाङ्गे / अपकरोऽन्यः / बहुवचनमाकृतिगणार्थम् / 1 तेनावोवचपरोवरादयोऽपि द्रष्टव्याः। 1013 ऋदुदित्तरतमरूपकल्पब्रुवचेलड्गोत्रमतहते वा ह्रस्वश्च // 3 / 2 / 63 // ऋदिदुदिच्च परतः स्त्रीलिङ्गशद्धस्तरादिषु प्रत्ययेषु ब्रुवादिषु च स्येकार्थेषत्तरपदेषु ह्रस्वान्तः पुंवच्च वा स्यात् / तर-पचन्तितरा, पचत्तरा, पचन्तीतरा। तम-पचन्तितमा, पचत्तमा / पचन्तीतमा। रूप-पचन्तिरूपा, पचद्रूपा, पचन्तीरूपा। कल्प-पचन्तिकल्पा, पचत्कल्पा, पचन्तीकल्पा / ब्रुव-पचन्ती चासौ ब्रुवा च पचन्तिब्रुवा, पचब्रुवा, पचन्तीब्रुवा / चेलट टिद्वचनं ङयर्थम् / पचन्ती चासौ पचन्तिगोत्रा, पचद्गोत्रा, पचन्तीगोत्रा / मत-पचन्ती चासौ मता च पचन्ति 1 आञ्चतीति अवाञ्चतीति आङ् च अवाङ् च 'चवर्गदशहः'-अत् आचोवचमिति निपात्यम् / परश्चावरश्च पराङ् च अवराङ् च इति वा परोवरम् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy