SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 221 कारीषगन्ध्यापतिरयं ग्रामः / मुख्य इत्येव / अतिक्रान्ता कारीषगन्ध्यामतिकारीषगन्ध्या, तस्याः पुत्रोऽतिकारीषगन्ध्यापुत्रः / 1004 बन्धौ बहुव्रीहौ // 2 / 4 / 84 // मुख्य आवन्तः ष्यो बन्धुशब्दे केवले परतो बहुव्रीहौ समासे ईच् स्यात् / कारीषगन्ध्या बन्धुरस्य कारीषगन्धीबन्धुः। बन्धाविति किम् / कारीषगन्ध्यापतिमः। केवल इत्येव / कारीषगन्ध्याबन्धुकुलः / कारीषगन्धीबन्धुकुल इत्यत्र कारीषगन्धीबन्धुः कुलमस्येति विग्रहः / बहुव्रीहाविति किम् / कारीषगन्ध्याया वन्धुः कारीषगन्ध्याबन्धुः। मुख्य इत्येव / अंतिकारीषगन्ध्या बन्धुरस्य अतिकारीषगन्ध्याबन्धुः। कारीपगन्ध्यामतिक्रान्तः स - 1005 गौणो ड्यादिः // 7 // 4 / 116 // ङीमारभ्य व्यं यावत् ङयादिः प्रत्ययः स गौणः सन् प्रकृत्यादेः समुदायस्य विशेषणं भवति नोनाधिकस्य / इति 1006 मातमातृमातृके वा // 2 // 48 // मुख्य आबन्तः यो मातादिषु केवलेषु परेषु बहुव्रीहौ समासे ईज्वा स्यात् / कारीषगन्ध्या माता यस्य स कारीषगन्धीमातः, कारीषगन्ध्यामातः / कारीपगन्ध्या माता यस्य स कारीषगन्धीमाता, कारीषगन्ध्यामाता / कारीषगन्धीमातृकः, कारीषगन्ध्यामातृकः। मातेति निर्देशान्मातृशद्धस्य पुत्रप्रशंसामन्त्र्यमन्तरेणापि पक्षे मातादेशः। अन्यथा मातृशब्देनैव गतत्वान्मातशब्दोपादानमनर्थकं स्यात् / मातृमातृकशद्वयोश्च भेदेनोपादानादृदन्तलक्षणः कच्प्रत्ययोऽपि विकल्प्यते / 1007 वेदूतोऽनव्ययवृदीचडीयुवः पदे !।२।४।९८॥ईकारोकारयोरुत्तरपदे परतो ह्रस्वो वा स्यात् न चेत्तावव्ययौ यत् इज़रूपौ ङीरूपौ इयुवस्थानौ च किम् / खट्टापादः / अव्ययादिवर्जन किम् / अव्यय-काण्डीभूतम् / स्कृत-इन्द्रहपुत्रः / ईच-कारीषगन्धीपुत्रः / ङी-गार्गीपुत्रः। इयुक्-श्रीकुलम् / भ्रूकुलम् / उत्तरपद इति किम् / अग्नी पश्य / 1008 त्वे // 2 / 4 / 100 // यावन्तस्य त्वे प्रत्यये बहुलं हस्वः स्यात् / रोहिण्या भावः रोहिणित्वम् , रोहिणीत्वम् / अजत्वम् / अजात्वम् वा।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy