SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ 220 सिद्धहैमबृहत्मक्रिया. [समासाश्रयविधि इक्षुवाहणम् / शरवाहणम् / वाह्यादिति किम् / सुरवाहनम् / संबंधमात्रमत्र विवक्षितम् / नरवाहनः / नात्र वाह्यात्परं वाहनं किं तर्हि वाहनात् / 1002 वोत्तरपदान्तनस्यादेरयुवपक्काहः // 2 / 3 / 75 // पूर्वपदस्थाद्रषवर्णात् परस्योत्तरपदान्तभूतस्य तथा नागमस्य स्यादेश्च नकारस्य णो वा स्यात, न चेत् स नकारो युवनपक्काहन्शद्धसंबंधी भवति / उत्तरपदान्त-व्रीहिवापिणौ, व्रीहिवापिनौ / न-व्रीहिवापाणि, व्रीहिवापानि कुलानि / इवु व्याप्तावित्यस्यानटि प्रेण्वनं प्रेन्वनं, हिवु प्रीणने पिवु सेचने इत्यनयोः शतरि पहिण्वन् पहिन्वन् / प्रपिण्वन् प्रपिन्वन् / हिवोरेव ह्यस्तन्यां पाहिण्वन् / पाहिन्वन् / बहुलवचनादनाम्नापि समासः। समासे हि पूर्वोत्तरपदव्यवहारः। पुरुषश्च वारि चेति पुरुषवारिणी इत्यत्र तु परमपि विकल्पं बाधित्वान्तरङ्गत्वादेकपदाश्रितं ' रघुवर्णात् ' इत्यादिना नित्यमेव णखम् / स्यादि-त्रीहिवापेण, ब्रीहिवापेन / बीहिवापान माषवापानित्यत्र तु अनन्त्यस्येत्यधिकारान्न भवति / उत्तरपदेति किम् / गर्गाणां भगः गर्गभगः / सोऽस्या अस्तीति समासादिन् / गर्गभगिणी। अत्रोत्तरपदस्यान्तो नकारो न भवतीति विकल्पो न भवति / एकपदस्थत्वात्तु मातृभोगीण इत्यादिवत् नित्यमेव णत्वं भवति / अन्तादिग्रहणं किम् / गर्गाणां भगिनी गर्गभगिनी। अत्र न नकारोऽन्तः किंतु ङोप्रत्ययः / यद्येवं मापवापिणी, माषवापिनीत्यत्र नकारस्योत्तरपदान्तत्वाभावात विकल्पो न स्यात् / उच्यते / 'गतिकारकोपपदानां कृद्भिः समासवचनं प्राक् प्रत्ययोत्पत्तेः' इति न्यायात् प्रागेव स्त्रीप्रत्ययात् अन्तरङ्गत्वादश्वक्रीतीत्यादावकारान्तेनेव क्रीतशब्देन नकारान्तेन वापिन्शब्देनोपपदसमासः पश्चात स्त्रीप्रत्ययः / विभक्त्यन्तत्वाभावेऽपि च रूढत्वादुत्तरपदत्वम् / ततश्चोत्तरपदस्यान्तो नकार इति णत्वविकल्पो भवति / अयुवपक्काह्न इति किम् / आययूना। प्रपकानि / दीर्घाही शरत् / अलचटतवर्गशसान्तर इत्येव / गर्दभवाहिनौ / 1003 च्या पुत्रपत्योः केवलयोरीच् तत्पुरुषे // 2 / 4 / 83 // मुख्य आवन्तः ष्यः पुत्रपतिशद्वयोः परयोस्तत्पुरुष समासे ईच् स्यात् / चकारो 'वेदृतः' इत्यादी विशेषणार्थः / कारीषगन्ध्यायाः पुत्रः कारीषगन्धीपुत्रः। एवं कारीपगन्धीपतिः। प्येति किम् / गौकक्ष्यापुत्रः। पुत्रपत्योरिति किम् / कारीपगन्ध्याकुलम्। केवलयोरिति किम् / कारीषगन्ध्यापुत्रकुलम् ।कारीपगन्धीपुत्रस्य कुलमिति विग्रहे तु कारीषगन्धीपुत्रकुलमित्यपि भवति / तत्पुरुष इति किम् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy