SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 219 द्विस्वरेभ्यस्त्रिस्वरेभ्यश्च इरिकादिवर्जितेभ्य ओषधिवाचिभ्यो वृक्षवाचिभ्यश्च परस्य वनशब्दसंबंधिनो नस्य णो वा स्यात् / ओषधि-दूर्वावणम्, दूर्वावनम्। मूर्वावणम्, मूर्वावनम् / वृक्ष-शिवणम् , शिग्रुवनम् / बदरीवणम् , बदरीवनम् / 'ओषध्यः फलपाकान्ता लतागुल्माश्च वीरुधः। फली वनस्पति यो वृक्षाः पुष्पफलोपगा॥ इति यद्यपि भेदोऽस्ति तथाप्यतिबहुत्वार्थबहुवचनवलाद् वृक्षग्रहणे वनस्पतीनामपि ग्रहणं भवति / अत एव च यथासंख्यमपि न भवति / तथा संज्ञायामसंज्ञायां च भवति। द्वित्रिस्वरेति किम् / देवदारुवनम् / ओषधिक्षेभ्य इति किम् / विदारीवनम् (विदारी लताविशेषः) शिरीषाणामदूरभवो ग्रामोऽपि शिरीषास्तेषां वनं शिरीषवनम् / अनिरिकादिभ्य इति किम् / इरिकावनम् / इरिकादिराकृतिगणः। इरिकादिविशेषवर्जनात् विशेषाणामेवेह विधिः / तेनेह न भवति / वृक्षवनम् / .997 गिरिनद्यादीनाम् // 2 / 3 / 68 // गिरिनदीत्यादीनां नकारस्य णो वा स्यात् / गिरिणदी, गिरिनदी / बहुवचनाद्यथादर्शनमन्येऽपि भवन्ति / . . 998 पानस्य भावकरणे // 2 // 369 // पूर्वपदस्थेभ्यो रघुवर्णेभ्यः परस्य भावे करणे च यः पानशद्धस्तत्संबंधिनो नस्य णो वा स्यात् / भावे-क्षीरपाणं क्षीरपानं वर्तते / करणे-क्षीरपाणं क्षीरपानं भोजनम्। भावकरण इति किम् / पीयतेऽस्मिन्निति पानः / क्षीरपानो घोषः / 999 देशे // 2 // 3 // 70 // पूर्वपदस्थाद्रपुवर्णात् परस्य पानशद्धनकारस्य णो नित्यं स्यात् देशे-समुदायेन चेदेशो गम्यते / योगविभागानवेति निवृत्तम् / पीयत इति पानम् / श्रीरं पानं येषां क्षीरपाणा उशीनराः। सुरापाणाः प्राच्याः। तात्स्थ्यान्मनुष्याभिधानेऽपि देशो गम्यते / देशे इति किम् / दाक्षीणां पानं दाक्षिपानम् / 1000 ग्रामाग्रान्नियः // 2 / 3 / 71 // ग्रामाग्राभ्यां परस्य नियो नकारस्य णः स्यात् / ग्रामणीः / अग्रणी। ग्रामाग्रादिति किम् / खरनीः। मेषनीः। 1001 वाह्याद्वाहनस्य // 2 // 3 // 72 // वोढव्यं वाह्यम् / तद्वाचिनो रेफादिमतः पूर्वपदात् परस्य वाहनशद्धसंबंधिनो नकारस्य णः स्यात् / उह्यतेऽनेनेति वहनम् / प्रज्ञादित्वात् स्वार्थिकोऽण / अतो वा निपातनादुपान्त्यदीर्घत्वम् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy