________________ 218 सिद्धहैमबृहत्पक्रिया. [समासाश्रयविधि आम्बष्ठः / सव्यष्ठः / अपष्ठः / द्विष्ठः / त्रिष्ठः। भूमिष्ठः / अग्निष्ठः / शेकुष्ठः / शंकुष्ठः / कुष्ठः / अङ्गुष्ठः / मञ्जिष्ठः / पुञ्जिष्ठः / वहिष्ठः / परमेष्ठः / दिविष्ठः / अत एव निपातनात् सप्तम्या अलुप् / तत्पुरुषे कृतीति तु नेन्सिद्धेति प्रतिषेधान्नोपतिष्ठते। 991 निर्दुस्सोः सेधसंधिसानाम् // 2 / 3 / 31 // निरादिभ्यः परेषां सेधादीनां सस्य समासे पः स्यात् / वचनभेदायथासंख्याभावः / निःषेधः। दुःषेधः। सुषेधः / निःषन्धिः। दुःषन्धिः / सुपन्धिः / निःषाम / दुःषाम / सुषाम / 992 प्रष्ठोग्रग्रे // 2 // 3 // 32 // प्रात् परस्य स्थसकारस्य पो निपात्यते अग्रगेअग्रगामिन्यभिधेये / प्रष्ठः अग्रगामी / प्रस्थोऽन्यः। 993 भीरुष्ठानादयः ॥२॥३॥३३॥भीरुष्ठानादयः शद्धाः समासे कृतषत्वाः साधवो भवन्ति। भीरूणां स्थानं भीरुष्ठानम् / अङ्गुलिषङ्गा यवागूः। समास इत्येव / भीरोः स्थानमित्यादि / बहुवचनमाकृतिगणार्थम् / 994 हस्वान्नाम्नस्ति // 2 // 3 // 34 // नानो विहिते तकारादौ प्रत्यये परे हस्वान्नामिन उत्तरस्य सस्य षः स्यात् / तल्त्वतस्त्यतयतरप्तमपः प्रयोजयन्ति। सर्पिष्टा / सर्पिष्ट्वम् / सर्पिष्टः / निष्टयः / चतुष्टयः। सर्पिष्टरम् / सर्पिष्टमम् 'असिद्धं बहिरङ्गम् अन्तरङ्ग' इति प्लुतत्वस्यासिद्धत्वादिहापि भवति। सर्पि३ष्ट्व। इस्वादिति किम् / गीस्त्वम् / नामिन इत्येव / तेजस्ता / नाम्न इति किम् / भिन्द्युस्तराम् / विहितविशेषणं किम् / सर्पिस्तत्र / तीति किम् / सर्पिस्साद्भवति / 995 निष्प्राग्रेऽन्तःखदिरकार्याम्रशरेक्षुप्लक्षपीयुक्षाभ्यो वनस्य // 2 // 3 // 66 // निरादिभ्यः परस्य वनशद्धनकारस्य णः स्यात् / बहुवचनं व्याप्त्यर्थम् / तेन संज्ञायामसंज्ञायां च भवति / अन्यथा हि कोटरमिश्रकसिधक-इत्यादिवक्ष्यमाणनियमबलेन संज्ञायां न स्यात् / निर्वणम् / प्रवणम् / अग्रेवणम् / पारेमध्येऽग्रेऽन्तः षष्ठया वेत्यव्ययीभावः। तत्संनियोगे च पूर्वपदस्यैत्वम् / अन्तर्वणम् / खदिरवणम् / कार्यवणम् / वचनसामर्थ्याच्छकारव्यवधानेऽपि भवति / आम्रवणम् / शरवणम् / इक्षुवणम् / प्लक्षवणम् / पीयुक्षावणम् / पीयुक्षाशद्धोऽव्युत्पन्न आवन्तः। ( द्राक्षापर्यायो द्राक्षाविशेषो वा) 996 द्वित्रिस्वरौषधिक्षेभ्यो नवाऽनिरिकादिभ्यः // 2 // 367 //