________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 217 स्थिरशद्धसंबंधिनः सस्य समासे पः स्यान्नान्नि / गविष्ठिरः। अस्मादेव निर्देशात् सप्तम्या अलुप् / युधिष्ठिरः। एकारे परे समासे षः स्यान्नान्नि / हरिषेणः। श्रीषेणः। एतीति किम् / हरिसिंहः। अक इति किम् / विष्वक्सेनः। नाम्नीत्येव / पृथ्वी सेनाऽस्य पृथुसेनः। नाम्यन्तस्थाकवर्गादित्येव / सर्वसेनः। 986 भादितो वा // 2 / 3 / 27 // नक्षत्रवाचिन इकारान्तात् परस्य सकारस्येकारे परे समासे पो वा स्यान्नाम्नि / 987 ङयापो बहलं नाम्नि // 2 // 4 // 29 // अन्यन्तस्य आबन्तस्य च नान्न उत्तरपदे परतः संज्ञायां इस्वः स्याद् बहुलम् / इति ह्रस्वे-रोहिणिषेणः, रोहिणिसेनः। इत इति किम् / पुनर्वसुषेणः। अत्र पूर्वेण नित्यमेव / 988 विकुशमिपरेः स्थलस्य // 2 / 3 / 28 // वि कु शमि परि इत्येतेभ्यः परस्य स्थलशदसंबंधिनः सकारस्य समासे षः स्यात् / नानीति निवृत्तम् / विगतं वीनां पक्षिणां वा स्थलं विष्ठलम् / कुत्सितं कोः पृथिव्या वा स्थलं कुष्ठलम् / शमीनां स्थलं शमिष्ठलम् / ङयापो बहुलं नाम्नीति इस्वः। मुत्रे इस्वस्य शमिशदस्योचारणाद् दीर्घान्न भवति / शमीस्थलम् / दीर्घादप्येके / परिगतं स्थलं परिष्ठलम् / एभ्य इति किम् / भूमिस्थलम् / 989 कपेर्गोत्रे // 2 / 3 / 29 // कपिशद्वात् परस्य स्थलशब्दसंबंधिनः सकारस्य समासे षः स्यात् गोत्रेऽभिधेये / कपिष्ठलो नाम गोत्रस्य प्रवर्तयिता / यस्य कापिष्ठलिः पुत्रः / गोत्रमिह लौकिकं गृह्यते / लोके चाद्यपुरुषा येऽपत्यसंततेः प्रवर्तयितारो यन्नाम्नोऽपत्यसंततिर्व्यपदिश्यते तेऽभिधीयन्ते / गोत्र इति किम् / कपीनां स्थलं कपिस्थलम् / ____990 गोम्बाम्बसव्यापद्वित्रिभूम्यग्निशेकुशंकुक्कङ्गमञ्जिपुचिबर्हिःपरमेदिवेः स्थस्य // 2 // 3 // 30 // गो अम्बा आम्ब सव्य अप द्वि त्रि भूमि अग्नि शेकु शङ्कु कु अङ्ग मञ्जि पुञ्जि बर्हिस् परमे दिवि इत्येतेभ्यः परस्य स्थशदसंबंधिनः सकारस्य समासे पः स्यात् / गोष्ठम् / अम्बाष्ठः / श्लिष्टनिर्देशादुभाभ्यामपि भवति /