________________ 216 सिद्धहैमबृहत्प्रक्रिया. [समासाश्रयविधि // अथ समासाश्रयविधयः / / 977 समासेऽग्नेः स्तुतः // 2 // 3 // 16 // अग्निशद्वात् परस्य स्तुत्शद्धसंबंधिनः सकारस्य समासे षः स्यात् / अग्निष्टुत् / अग्निष्टुतौ / अग्निष्टुतः। 178 ज्योतिरायुा च स्तोमस्य // 2 // 3 // 17 // ज्योतिरायुःशद्धाभ्यामनेश्च परस्य स्तोमशदसंबंधिनः सकारस्य समासे षः स्यात् / ज्योतिःष्टोमः। आयु: 979 निनद्याः स्नातेः कौशले // 2 / 3 / 20 // निनदीशद्धाभ्यां परस्य स्नाते संबंधिनः सकारस्य समासे षः स्यात् कौशले-नैपुण्ये गम्यमाने / निष्णः, निष्णातः कटकरणे / नदीष्णः, नदीष्णातः प्रतरणे / कुशल इत्यर्थः। नद्याःस्नातस्य नेच्छन्त्येके / कौशल इति किम् / निस्नातः / नदीस्नः / यः स्रोतसा हियते / 980 प्रतेः स्नातस्य सूत्रे // 2 // 3 / 21 // प्रतेः परस्य स्नातसंबंधिनः सकारस्य समासे षः स्यात् सूत्रेऽभिधेये। विशेषानुपादानाचोर्णादिसूत्रं व्याकरणादिसूत्रं च गृह्यते / प्रतिष्णातं सूत्रम् / ऊर्णादिसूत्रं क्षालनेन शुद्धम् व्याकरणादिसूत्रं त्वतिव्याप्त्यादिदोषाभावेन शुद्धमित्यर्थः / सूत्र इति किम् / प्रतिस्नातमन्यत् / प्रत्ययान्तोपादानं प्रत्ययान्तरनिवृत्त्यर्थम् / प्रतिस्नायकं मूत्रम् / 981 स्नानस्य नाम्नि // 2 / 3 / 22 // प्रतेः परस्य स्नानसंबंधिनः सकारस्य समासे षः स्यात् मूत्रविषये नाम्नि, समुदायश्चेत्सूत्रविषयं नाम भवतीत्यर्थः / प्रतिष्णानं मूत्रमित्यर्थः / नानीति किम् / प्रतिस्नानमन्यत् / 982 वेः स्त्रः // 2 / 3 / 23 // वेः परस्य स्तृणातेः सकारस्य समासे पः स्यानान्नि-समुदायश्चेत् संज्ञाविषयो भवति / विष्टरो वृक्षः / विष्टरमासनम् / विष्टारपंक्तिश्छन्दः / नाम्नीत्येव / विस्तरो वचसाम् / 983 अभिनिष्टानः // 2 / 3 / 24 // अभि निस् इत्येतस्मात् परः ष्टानशनः समासे कृतपत्वा निपात्यते नान्नि। अभिनिष्टानो वर्णः। विसर्गस्यैषा संज्ञा / वर्णमात्रस्येत्यन्ये / नाम्नीत्येव / अभिनिःस्तन्यते अभिनिस्तानो मृदङ्गः / 984 गवियुधेः स्थिरस्य // 2 // 3 // 25 // गवि युधि इत्येताभ्यां परस्य