SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ 214 सिद्धहैमबृहत्मक्रिया. [ अलुक्समास 963 अपो ययोनिमतिचरे ॥३।२।२८॥अपशब्दात् परस्या सप्तम्या यत्पयये योनिमतिचरेषु चोत्तरेपदेषु लब न स्यात् / अप्सु भवः अपसव्यः। दिगादित्वाद्यः / अप्सुयोनिः / अप्मुमतिः / अप्मुचरः। 964 नेन्सिद्धस्थे / / 3 / 2 / 29 // इन्प्रत्ययान्ते सिद्धस्थ इत्येतयोश्चोत्तरपदयोः सप्तम्या अलुप न स्यात् / भवत्येवेत्यर्थः। स्थण्डिलशायी। सांकाश्यसिद्धः। समस्थः। शयवासीत्यादियोगद्वयविकल्पो झुप्रावृडित्यादियोगद्वयविधिरनेन प्रतिषेषश्च तत्पुरुषे कृतीत्यस्थैव प्रपञ्चः / ते वै विधयः सुसंगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्चेति / 965 षष्ट्याः क्षेपे // 3 // 2 // 30 // क्षेपे गम्यमाने उत्तरपदे परे षष्ठया लुब् न स्यात् / चौरस्यकुलम् / क्षेप इति किम् / ब्राह्मणकुलम् / कथं चौरकुलमिति ? तत्त्वाख्यानमेतन्न क्षेपः। 966 पुत्रे वा // 32 // 31 // पुत्रशब्दे उत्तरपदे क्षेपे गम्यमाने षष्ठ्या लुब् वा न स्यात् / दास्याः पुत्रः, दासीपुत्रः / क्षेप इत्येव / ब्राह्मणपुत्रः / दासीपुत्र इति तु तत्त्वाख्याने / पूर्वेण नित्यं निषेधे प्राप्ते विकल्पः / 967 पश्यद्वाग्दिशो हरयुक्तिदण्डे // 32 // 32 // पश्यद्वाग्दिक्शब्देभ्यः परस्याः षष्ठया यथासंख्यं हरयुक्तिदंडेघूत्तरपदेषु लुब् न स्यात् / पश्यतोहरः। अनादरे षष्ठीयम् / जनं पश्यन्तमनादृत्य हर्तेत्यर्थः / वाचोयुक्तिः ।दिशोदण्डः। संबंधषष्ठयो। . 968 अदसोऽकनायनणोः // 3 // 2 // 33 // अदसः परस्याः षष्ठया अकाप्रत्ययविषये उत्तरपदे आयनण प्रत्यये च परे लुब् न स्यात् / अमुष्य पुत्रस्य भावः आमुष्यपुत्रिका / चौरादित्वादकञ् / अमुष्यापत्यमामुष्यायणः / नडादित्वादायनण / अदसोऽनन्तरमायनणो विधानान्न तत्रोत्तरपदसंभवः। 969 देवानांप्रियः // 32 // 34 // देवानांपिय इति षष्ठया लुबभावो निपात्यते / देवानांप्रियः / मूर्ख इत्यर्थः। 970 शेपपुच्छलाङ्गुलेषु नाम्नि शुनः // 3 / 2 / 35 // श्वनशब्दात् परस्याः षष्ठयाः शेपादिघूत्तरपदेषु संज्ञायां लुब् न स्यात् / शुनः शेपमिव शेपमस्य शुनः शेपः / एवं शुनःपुच्छः / शुनोलाङ्गुलः / शेपःशद्धः सकारान्तोऽप्यस्ति इह त्वकारान्तस्य ग्रहणम् / नाम्नीति किम् / श्वशेपम् / श्वपुच्छम् / अन्ये तु सिंहस्यशेपं
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy