________________ पकरणम् ] सिद्धहैमबृहत्मक्रिया. 213 किम् / अक्षशौण्डः। अकाम इति किम् / मुखकामः। अद्यञ्जनादित्येव / अङ्गुलित्रणः। बहुलाधिकारात् करकमलम्, गलरोगः, गलवणः इत्यादि सिद्धम् / 958 बन्धे घनि न वा // 3 / 2 / 23 // बन्धशब्दे घबन्ते उत्तरपदे परे अध्यञ्जनात् परस्याः सप्तम्या वा लुब् न स्यात् / स्वाङ्गादस्वाङ्गाचार्य विकल्पः / हस्ते बन्धः हस्ते बन्धोऽस्येति वा हस्तेवन्धः, हस्तबन्धः / चक्रेबन्धः, चक्रबन्धः। बन्ध इति किम् / पुटपाकः / घनीति किम् / अजन्ते मा भूत् / बध्नातीति बन्धः, चक्रवन्धः / अव्यंजनादित्येव / गुप्तिबन्धः। 959 कालात्तनतरतमकाले // 3 / 2 / 24 // अयञ्जनान्तात् कालवाचिनः शद्वात् परस्याः सप्तम्यास्तनतरतमप्रत्ययेषु कालशब्दे चोत्तरपदे परे वा लुब् न स्यात् / तन-पूर्वाह्नेतनः, पूर्वाह्नतनः। तर-पूर्वाह्नेतराम् / पूर्वाह्नतरे। तम-पूर्वाह्नतमाम् , पूर्वाहणतमे / काल-पूर्वा लेकाले / पूर्वाह्नकाले / कालादिति किम् / शुक्लतरे / अयअनादित्येव / रात्रितरायाम् / 'उत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्य ग्रहणम् न तदन्तस्य' 'न वा खित्कृदन्ते ' इत्यत्रान्तग्रहणात् / तेनात्र तनतरतमप्रत्ययानां स्वरूपेणैव ग्रहणं भवति / 960 शयवासिवासेष्वकालात् // 3 // 2 // 25 // अकालवाचिनोऽद्व्यञ्जनान्ताच्छदात् परस्याः सप्तम्याः शयादिवृत्तरपदेषु लुब न स्यात् / बिलेशयः, विलशयः / वनेवासी, वनवासी। ग्रामेवासः, ग्रामवासः / बहुलाधिकारान्मनसिशय इत्यादी नित्यं लुबभावः / हृच्छय इत्यादौ तु नित्यं लुप् / अकालादिति किम् / पूर्वाह्नशयः / अध्यञ्जनादित्येव / भूमिशयः / 961 वर्षक्षरवराप्सर शरोरोमनसो जे // 3 / 2 / 26 // वर्ष क्षर वर अप सरस शर उरस् मनस् इत्येतेभ्यः परस्याः सप्तम्या जे उत्तरपदे परे वा लुप स्यात् / वर्षेजः, वर्षजः / क्षरेजः, क्षरजः। वरेजः, वरजः। अप्मुजम् , अब्जम् / सरसिजम् , सरोजम् / शरेजः, शरजः / उरसिजः, उरोजः। मनसिजः, मनोजः। .962 धुप्रावृड्वर्षाशरत्कालात् // 3 / 2 / 27 // योगविभागाद्वेति निवृत्तम् / दिवप्रभृतिभ्यः परस्याः सप्तम्या जे उत्तरपदे परे लुब् न स्यात् / दिविजः / प्राषिजः / वर्षासुजः / शरदिजः / कालेजः।