________________ 316 सिद्धहैमबृहत्प्रक्रिया. [ अलुक्समासे 954 प्राक्कारस्य व्यंजने // 3 / 2 / 19 / / राजलभ्यो रक्षानिर्वेशः कारः। प्राचां देशे यः कारस्तस्य नाम्नि-संज्ञायां गम्यमानायामद्व्यञ्जनात् परस्याः सप्तम्या व्यंजनादावुत्तरपदे परे लुब् न स्यात् / मुकुटे मुकुटे कार्षापणः दातव्यः मुकुटेकार्षापणः। देयः पशुः यूथपशुः / उदीचां देशे कारोऽयं न प्राचाम् / कार इति किम् / अभ्यहितेऽभ्यहिते देयः पशुः अभ्यहितपशुः / प्राचां देशे कारादन्यस्य देयस्यैतन्नाम। व्यञ्जन इति किम् / अविकटेऽविकटे उरणो दातव्यः अविकटोरणः। अविकटोऽवि नियमार्थोऽयं योगः। त्रिविधश्चात्र नियमः / प्राचामेव, कारस्यैव नाम्नि, व्यंजनादावेवेति / तथा च प्रत्युदाहृतम् / 955 तत्पुरुषे कृति॥३।२।२० अध्यञ्जनात् परस्याःसप्तम्याः कुदन्ते उत्तरपदे परे तत्पुरुष समासे लुब न स्यात् / नाम्नीति निवृत्तम् / स्तम्बे रमते स्तम्बरमः। एवं कर्णेजपः। व्यंजन-भस्मनिहुतम् / भस्मनिमीढम् / बहुलाधिकारात् कचिदन्यतोऽपि / गोषुचरः। कचिनिषेधो न भवति / मद्रचरः। कचिद्विकल्पः / खचरः। खेचरः / कचिदन्यदेव / हृदयं स्पृशति हृदिस्पृक् / द्वितीयार्थेऽत्र सप्तमी / तत्पुरुष इति किम् / धन्वनि कारका यस्य स धन्वकारकः / कृतीति किम् / अक्षशौण्डः / अब्यञ्जनादित्येव / कुरुषु चरति कुरुचरः। कथं परमे कारके उत्तमे कारके इति विग्रहे परमकारके उत्तमकारके तिष्ठतीत्यत्र सप्तम्या लुब् भवति ? उच्यते / अन्तरङ्गत्वात् यद्वा कृतीति कृन्निमित्ताया एव सप्तम्या लुप्प्रतिषेधः / इह तु तिष्ठत्यादिक्रियापेक्षेति लुब् भवत्येव / 956 मध्यान्ताद् गुरौ // 3 / 2 / 21 // मध्यान्तशद्धाभ्यां परस्थाः सप्तम्या गुरुशब्दे उत्तरपदे परे लुब् न स्यात् / मध्येगुरुः / अन्तेगुरुः। मध्यगुरुः , अन्तगुरुरित्यप्यन्ये। 957 अमूर्धमस्तकात् स्वाङ्गादकामे // 32 // 22 // मूर्धमस्तकशद्ववजितात् स्वाङ्गवाचिनोऽयञ्जनान्ताच्छद्धात् परस्याः सप्तम्याः कामशद्वादन्यस्मिन्नुत्तरपदे परे लुब् न स्यात् / कण्ठे कालोऽस्य कण्ठेकालः। वहेगडुः / उरसिलोमा / अमूर्धमस्तकादिति किम् / मूर्धशिखः / मस्तकशिखः / स्वाङ्गादिति