________________ 211 प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 948 पुंजनुषोऽनुजान्धे // 3 / 2 / 13 // पुम्स्शदाजनुःशद्धाच्च परस्य टावचनस्य यथासंख्यमनुजशब्देऽन्धशब्दे चोत्तरपदे लुब् न स्यात् / पुंसा करणे-' नानुजः पुंसानुजः / जनुपा जन्मनान्धः जनुषान्धः। अविकृताक्षो जात्यन्ध उच्यते। अन्ये तु जतुशद्वात्तकारश्रुतेरिच्छन्ति / ट इत्येव / पुमांसमनुजाता पुमनुजा। 949 आत्मनः पूरणे // 3 / 2 / 14 // आत्मनः परस्य टावचनस्य पूरणप्रत्ययान्ते उत्तरपदे परे लुब् न स्यात् / आत्मनाद्वितीयः। आत्मनातृतीयः। प्रादित्वात समासः / कथं 'जनार्दनस्त्वात्मचतुर्थ एवेति ? / आत्मा चतुर्थोऽस्येति बहुव्रीहिः। 950 मनसश्चाज्ञायिनि // 3 / 2 / 15 // मनःशद्वादात्मशद्वाश्च परस्य टा. वचनस्याज्ञायिन्युत्तरपदे परे लुब् न स्यात् / मनसा ज्ञातुं शीलमस्य मनसाज्ञायी। एवमात्मनाज्ञायी / आत्मनो नेच्छन्त्येके / 951 नाम्नि // 3 // 2 // 16 // मनसः परस्य टावचनस्योत्तरपदे परे संज्ञायां विषये लुप न स्यात् / मनसादेवी / मनसागुप्ता / एवंनामा काचित् / नाम्नीति किम् / मनोदत्ता कन्या। 952 परात्मभ्यां // 3 / 2 / 17 // परात्मशद्धाभ्यां परस्य डेन्श्चतुर्थंकवचनस्योत्तरपदे परे नाम्नि विषये लुप् न स्यात् / परस्मैपदम् / आत्मनेपदम् / तादर्थ्य चतुर्थी। हितादित्वात् समासः। नाम्नीत्येव / परहितम् / कथं परहितो नाम कश्चित् ? नेयमनादिसंज्ञा। 953 अव्यंजनात् सप्तम्या बहुलम् // 3 / 2 / 18 // अकारान्ताद् व्यंजनाच्च परस्याः सप्तम्या बहुलं लुब न स्यात् संज्ञायाम् ।अदन्त-अरण्येतिलकाः। वनेकशेरुकाः।व्यंजन-युधिष्ठिरः। बहुलवचनात् कचिद्विकल्पः। त्वचिसारः। त्वक्सारः।कचिद् भवति / जलकुक्कुटः। अद्व्यञ्जनादिति किम् / भूमिपाशः। नाम्नीत्येव / तीर्थकाकः। सप्तम्या इति किम् / गौरखरः। कथं गविष्ठिरः ? बिदादिपाठात् -- गवियुधेः स्थिरस्ये ' ति निर्देशाद्वा भविष्यति / नन्वन्तरङ्गत्वादवादेशे कृते व्यंजनान्तत्वादेव सिद्धं किं बिदादिपाठाश्रयणेन ? नैवम्। 'अन्तरङ्गानपि विधीन् बहिरङ्गा लुब् बाधते'. इत्युक्तत्वात् / अन्यथा नदीकुक्कुटिकादिष्वप्यन्तरङ्गत्वाद्यत्वे सत्यलुप् प्रसज्ज्येतेति।