________________ 210 सिद्धहैमबृहत्मक्रिया. [अलुक्समास ॥अथालुक्समासः॥ 944 न नाम्येकस्वरात् खित्युत्तरपदेऽमः // // 29 // समासारंभक'' मन्त्यं पदमुत्तरपदम् / नाम्यन्तादेकस्वरात् पूर्वपदस्यामः खित्मत्ययान्ते उत्तरपदे परे लुप् न स्यात् / स्त्री स्त्रियं वात्मानं मन्यते स्त्रोंमन्यः, स्त्रियंमन्यः। अथ श्रियमात्मानं मन्यते श्रियंमन्यं कुलमित्यत्र नपुंसकलक्षणोऽमो लोपः कस्मान भवति ? / उच्यते / श्रीशद्धस्यात्मसमानाधिकरणस्य नपुंसके वृत्त्यभावादाविष्टलिङ्गत्वाच न भवति / अन्ये त्वाहुः-यथा प्रष्ठादयः शद्धा धवयोगात् स्त्रियां वर्तमानाः स्वलिङ्गं विहाय स्त्रीलिङ्गमुपाददते तथा श्रीशद्धः कुले वर्तमानः स्वलिङ्गपरित्यागेन वर्तते ततो नपुंसकलक्षणं इस्वत्वममो लुप् च न भवति / श्रिमन्य कुलमिति / न चायं नपुंसकलक्षणस्य लोपस्यापवादः किंतु ऐकार्यलक्षणस्योत्तरपदग्रहणात / नामिग्रहणं किम्। झंमन्यः। एकस्वरादिति किम् / हरणिंमन्या। खितीति किम् / स्त्रीमानी। मन्याण्णिन् / 945 असत्त्वे ङसेः // 3 / 2 / 10 // असत्वे विहितो यो सिः तस्योत्तरपदे लुब् न स्यात् / स्तोकान्मुक्तः। अल्पान्मुक्तः। अन्तिकादागतः। दूरादागतः / निष्क्रान्तः स्तोकान्निस्तोकः / 946 ब्राह्मणाच्छंसी // 3 / 2 / 11 // ब्राह्मणाच्छंसीत्यत्र ङसेल्वभावो निपात्यते / ब्राह्मणाद् ग्रंथादादाय शंसति ब्राह्मणाच्छंसी। रूढिवशात्विग्विशेष उच्यते / उपात्तविषयमेव तदपादानं यथा कुमूलात् पचति। निपातनस्येष्टविषयत्वात् ऋत्विग्विशेषादन्यत्र लुप् स्यात् / ब्राह्मणशंसिनी स्त्री। / 947 आजोऽक्ष सहोम्भस्तमस्तपसष्टः // 3 / 2 / 12 // एभ्यः परस्य टस्तृतीयैकवचनस्योत्तरपदे परे लुब् न स्यात् / ओजसाकृतम् / अञ्जसाकृतम् / सहसाकृतम् / अम्भसाकृतम् / तमसाकृतम् / तपसाकृतम् / कथं सततनैशतमोवृतमन्यत' इति ? उत्तरपदस्य संबंधिशद्धत्वायत्र पूर्वपदीभूतस्तमःशद्धस्तत्रायं निषेधः। यत्र तु पदान्तरेण समस्तस्तत्र न प्रतिषेधः। ट इति किम् / ओजसो भावः ओजोभावः / तमसो नेच्छन्त्येके / तपसोऽन्ये /