________________ 209 प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 939. ब्रह्मास्तिराजपल्यावर्चसः // 7 // 3 // 83 // ब्रह्मन् हस्तिन् राजन् पल्य इत्येतेभ्यः परो यो वर्चसशब्दस्तदन्तात् समासादत समासान्तः स्यात् / वर्चस्तेजो बलं वा / ब्रह्मणो वर्चः ब्रह्मवर्चसम्। एवं हस्तिवर्चसम् / पल्यवर्चसम् / पल्यं कटकृतं पलालवतिकृतं वा धान्यभाजनम् / हस्तिविधा वा / ब्रह्मादिभ्य इति किम् / नृपाः सोमार्कवर्चसः। कथं विषिमान् राजवर्चस्वीति?। समासान्तविधेरनित्यत्वात् / एतच्च 'ऋक्पूःपथ्यपोऽत्' इति निर्देशात् सिद्धम् / 940 अक्ष्णोऽप्राण्यड़े // 7 // 86 // अक्षिशद्वान्तात् समासादत् समासान्तः स्यात् अप्राण्यङ्गे-न चेत्सोऽक्षिशब्दः प्राण्यङ्गे वर्तते / लवणस्याक्षि लवणमक्षीवेति वा लवणाक्षम् / अपाण्यङ्ग इति किम् / अजाक्षि / 941 संकटाभ्याम् // 7 // 386 // सम् कट इत्येतत्पूर्वादक्षिशद्वादत् समासान्तः स्यात् / संगतमक्ष्णा समीपमक्ष्णो वा समक्षम् / कटस्याक्षि कटाक्षः / प्राण्यङ्गाथै वचनम् / ___942 पूजास्वतेः प्राक् टात् // 7 // 3 / 72 / / पूजायां यौ स्वती ताभ्यां परे ये ऋगादयस्तदन्तात् समासात् 'बहुव्रीहेः काष्टे टः ' इति टप्रत्ययात् माक् यः समासान्तः स न स्यात् / शोभना धः सुधः / अतिधः। सुराजा। अतिराजा। पूजाग्रहणं किम् / अतिक्रान्तो राजानमतिराजः। स्वतेरिति किम् / परमधुरा / 943 बहोर्डे // 13 // 73 // डे-डविषये डप्रसङ्गो यत्र ततो बहवन्तात् समासान्तो डः कच् च न स्यात / आसन्ना बहवो येषां ते आसन्नबहवः / उपबहवः / बहोरिति किम्। द्वित्राः। उपदशाः / ड इति किम् / प्रिया बहवोऽस्य प्रियबहुकः / इति श्रीसिद्धहैमबृहत्मक्रियायां समासप्रकरणे समासान्ताः समाप्ताः //