SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ 208 सिद्धहैमबृहत्प्रक्रिया. . [सान्तसमास - 933 धुरोऽनक्षस्य / / 7 / 3 / 77|| धुरन्तात् समासादत् स्यात् सा चेधूः अक्षसंबंधिनी न भवेत् / राज्यधुरा / रणधुरा / द्विधुरी। महाधुरं शकटम् / अनक्षस्येति किम् / अवधूः। 934 संख्यापाण्डूदकृष्णाद्भूमेः // 7 // 3 // 78 // संख्यावाचिभ्यः पाण्डु उदच कृष्ण इत्येतेभ्यश्च नामभ्यः परो यो भूमिशब्दस्तदन्तात् समासादत् स्यात् / द्वयोर्भूम्योः समाहारः द्विभूमम् / द्वे भूमी अस्य द्विभूमः प्रासादः। पाण्डुर्भूमिः पाण्डुभूमम् / उदीची भूमिः उदग्भूमम् / कृष्णा भूमिः कृष्णभूमम्। 'भूमोऽसंख्यात एकार्थ ' इति (लिङ्गानुशासनोक्तेः ) पाण्डुभूमादेनपुंसकत्वम् / संख्यादिभ्य इति किम् / सर्वभूमिः। 935 उपसर्गादध्वनः // 73 // 79 // उपसर्गात् धातुयोगे यः प्रादिरुपसर्गसंज्ञां लभते तस्मात् परादध्वनोऽत् समासान्तः स्यात् / प्रगतमध्वानं प्राध्वं शकटम् / 936 समवान्धात्तमसः // 7 // 380 // सम् अव अंध इत्येतेभ्यः परो यस्तमसशब्दस्तदन्तात् समासादत् समासान्तः स्यात् / संततं तमः संततं तमसा संततं तमोऽस्मिन्निति वा संतमसम् / अवहीनं तमोऽवहीनं तमसा अवहीनं तमोऽस्मिन्निति वा अवतमसम् / अन्धं करोतीत्यन्धम् / अंधं च तत्तमश्च अंधं तमोऽस्मिन्निति वा अंधतमसम् / . 937 तप्तान्ववाद्रहसः // 73 // 81 // रह इति अपकाश्यं विजनं वा / तप्त अनु अव इत्येतत्पूर्वो यो रहःशब्दस्तदन्तादत् समासान्तः स्यात् / तप्तं तप्ताय इवानधिगभ्यं रहः तप्तरहसम् / अनुगत रहोऽनुगत रहसा वा अनुरहसम् / अवहीनं रहोऽवहीनं रहसा वा अवरहसम् / 938 प्रत्यन्ववात् सामलोम्नः / / 7 / 3 / 82 // प्रति अनु अव इत्येतेभ्यः परौ यो सामन्लोमन्शब्दौ तदन्तात् समासादत् समासान्तः स्यात् / प्रतिगतं साम प्रतिसामम् / प्रतिगतं सामास्य प्रतिसामः। एवमनुसामम् अनुसामः। अवसामम् अवसामः / प्रतिलोमम् प्रतिलोमः। अनुलोमम् 'अनुलोमः। अवलोमम् अवलोमः / अव्ययीभावे तु परत्वाद् विकल्पः। साम साम पति सानोऽभिमुखं वा प्रतिसाम प्रतिसाममित्यादि। प्रत्यन्ववादिति किम् / निःषाम वचनम् / निर्लोमा पुरुषः। सामलोन्न इति किम् / प्रतिकर्म /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy