SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. इन्द्राणी च इन्द्रौ / एवं पूर्वसूत्रेऽपि / भागवित्तिश्च भागवित्तिकश्च भागवित्ती। 930 ग्राम्याशिशुद्विशफसंघे स्त्री प्रायः // 3 / 1 / 127 // ग्राम्या अशिशवो ये द्विशफा द्विखुरा अर्थात पशवः। तेषां संधे स्त्रीपुरुषाणां सहोतो प्रायः स्त्रीवाच्येकः शिष्यते स्त्रीपुरुषमात्रभेदश्चेद् भवति / पूर्वेण पुरुषशेषे प्राप्ते स्त्रीशेषाथै वचनम् / गावश्च स्त्रियः गावश्च पुरुषाः इमा गावः। ग्राम्येति किम् / आरण्यानां मा भूत् / रुरवश्वेमे रुरवश्चेमा इमे रुरवः / अशिशुग्रहणं किम् / वत्साश्चेमा वत्साश्चेमे इमे वत्साः / द्विशफेति किम् / गर्दभाश्च गर्दभ्यश्च गर्दभाः। संघ. ग्रहणं किम् / गौश्चायं गोश्चेयं इमौ गावौ / एवमेतावजौ / प्राय इति किम् / छाग्यश्च छागाश्च छागाः। व्यावृत्तौ सर्वत्र पूर्वेण पुरुषशेष एव भवति / तन्मात्रभेदे इत्येव / गोबलीवर्दम् / 931 क्लीबमन्येनकं च वा ॥३।१।१२८॥क्लीबं नपुंसकं नाम अन्येनाक्लीबेन सहोक्तावेकं शिष्यते तन्मात्रभेदे-क्लीवालीबमात्र एव चेद् भेदो भवति / तच्च शिष्यमाणमेकमेकार्थं वा स्यात् / अर्थस्यैकत्वे तद्विशेषणानामपि तथाभावः / शुक्लं च वस्त्रं शुक्लश्च कम्बल: तदिदं शुक्लम् ते इमे शुक्ले वा / शुक्लं च वस्त्रं शुक्लश्च कंबलः शुक्ला च शाटी तदिदं शुक्लम् तानीमानि शुक्लानि वा। क्लीवग्रहणं किम् / स्त्रीपुंसरयोरपि शेषः स्यात् / अन्येनेति किम् / शुक्लं च शुक्लं च शुक्ले / स्यादावसंख्येय इत्येकशेषः। अनेन त्वेकशेषे विकल्पेनैकार्थत्वं प्रसज्ज्येत / तन्मात्र निमित्तलक्षणार्थभेदोऽप्यस्तीति नैकशेषः / // इति श्रीसिद्धहैमबृहत्पक्रियायां समास प्रकरणे एकशेषः समाप्तः // // अथ समासान्ताः॥ 932 ऋक्पूःपथ्यपोऽत् // 73 / 76 / / ऋच पुर पथिन् अप इत्येतदन्तात् समासादत्-अकारः समासान्तः स्यात् / ऋचोऽर्धम् अर्धर्चः / श्रियाः पू: श्रीश्चासौ पूश्चेति वा श्रीपुरम् / जलपथः। द्विगता आपोऽस्मिन् द्वीपम् / पुरपथशद्वाभ्यां सिद्धे पुर् पथिन् इत्येतयोरुपादानमेतद्विषये प्रयोगनिवृत्यर्थम् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy