________________ सिद्धहैमबृहत्पक्रिया. 201 अक्लीवग्रहणं किम् / गवामयनादित्यानामयने / प्रसज्यप्रतिषेधः किम् / राजसूयं च वाजपेयं च राजसूयवाजपेये / इमौ क्रतू पुंलिङ्गावपि स्त इति पयुदासाश्रयणेऽत्रापि स्यात् / अध्वर्युग्रहणं किम् / इषुव नौ / इष्वादयः सामवेदे विहिताः। क्रतुग्रहणं किम् / दर्शपौर्णमासौ। 903 निकटपाठस्थ // 3 / 1 / 140 // निकटः पाठो येपामध्येतॄणां ते निकटपाठाः, तद्वाचिनां स्वैर्द्वन्द्व एकार्थ: स्यात् / पदमधीते पदकः। एवं क्रमकः / पदकश्च क्रमकश्च पदकक्रमकम् / पदानन्तरं क्रमस्य पाठात् पाठयोनिकटत्वम् / निकटेति किम् / याज्ञिकवैयाकरणौ / पाठेति किम् / पितापुत्रौ / 904 नित्यवैरस्य // 3 / 1 / 141 // नित्यमनिमित्तं जातिनिवद्धं वैरं येषां तद्वाचिनां शद्धानां स्वैर्द्वन्द्व एकार्थः स्यात् / अहिनकुलम् / मारिमूषिकम् / पशुविकल्पः पक्षिविकल्पश्च परत्वादनेन बाध्यते / अश्वमहिषम् / काकोलूकम् / नित्यवैरस्येति किम् / कौरवपाण्डवाः। कौरवपाण्डवम् / देवासुराः। देवासुरम् / नैषां निनिमित्तं वैरमपि तु राज्यापहारादिकृतम् / अन्ये तु वैर एवाभिधेये इच्छन्ति / श्वावराहं वैरम् / वैरिषु तु यथाप्राप्तम् / दक्षिणाद् वामगमनं प्रशस्तं श्वशृगालयोविद्यते लोक औत्पत्तिको विरोधो यथा मार्जारमूषिकयोः। 905 नदीदेशपुरा विलिङ्गानाम् // 3 / 1 / 14 / / विविधं लिङ्गं येषां तेषां नदीदेशपुराभिधायिनां शद्धानां स्वैर्द्वन्द्व एक-एकार्थः स्यात् / गंगा च शोणश्च गंगाशोणम् / देश-कुरवश्व कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् / पुरम्-मथुरापाटलिपुत्रम् / पुरां देशत्वात् तद्ग्रहणेनैव सिद्धे पूर्घहणं ग्रामनिषेधार्थम् / जाम्बवश्च शालूकिनी च जाम्बवशालूकिन्यौ ग्रामौ। स्वैरित्येव / शौर्य च नगरं केतवता च ग्रामः शौर्यकेतवते / पूर्णा नदीदेशपुरामिति किम् / कुक्कुटमयूर्यो / देशग्रहणेन चेह जनपदानां ग्रहणं पृथग्नदीपूहणात् / तेनेह न भवति / गौरी च कैलासश्च गौरीकैलासौ पर्वतौ / विलिङ्गानामिति किम् / गंगायमुने / 906 पाव्यशूद्रस्य // 3 / 1 / 143 // भुक्ते पात्रं संस्कारेण शुध्यति ते पात्रमर्हन्ति पाच्याः। पात्र्यशूद्रवाचिनां स्वैर्द्वन्द्व एकार्थः स्यात् / तक्षायस्का