________________ सिद्धहैमबृहत्प्रक्रिया. [द्वन्द्वसमास 899 अप्राणिपश्चादेः // 3 / 1 / 136 // बहुत्व इति निवृत्तम् / पूर्वयोगारंभात् / पाणिभ्यः पश्चादिसूत्रोक्तेभ्यश्च येऽन्ये द्रव्यभूताः पदार्थास्तेषां जाती वर्तमानानां शद्धानां स्वैर्द्वन्द्व एक-एकार्थः स्यात् / आरा च शस्त्री च आराशस्त्रि / धाना च शष्कुली च धानाशष्कुलि। जांतावित्येव / विन्ध्यहिमालयौ / जातिविवक्षायामयं विधिः। व्यक्तिविवक्षायां तु यथामाप्तम् / आराशस्त्रि, आराशरूया विमे / पाणिपश्वादिजातिवर्जनं किम् / ब्राह्मणक्षत्रियविशुद्राः। ब्राह्मणक्षत्रियविट्शूद्रम् / अप्राणीति पाणिनो द्रव्यस्य पर्युदासेनामाणिनो द्रव्यस्य ग्रहणादिह न भवति / रूपरसगंधस्पर्शाः / स्वैरित्येव / बदरशृगालौ / 900 प्राणितूर्याङ्गाणाम् // 3 / 1 / 137 // प्राण्यङ्गानां तूर्याङ्गाणां च स्वैद्वन्द्व एक-एकार्थः स्यात् / प्राण्यङ्ग-दन्ताश्च ओष्ठौ च दन्तोष्ठम् / पाणिपादम्। तूर्याङ्ग-शंखपटहम्। मार्दङ्गिकपाणविकम् / स्वैरित्येव / पाणिगृधौ / पाण्यङ्गानां तूर्याङ्गेषु शंखपटहादीनामप्राणिजातित्वात् पूर्वेण सिद्ध व्यक्तिविवक्षायां विधानार्थ जातिविवक्षायां प्राण्यङ्गापाण्यङ्गादिसंभेद एकत्वनिराकरणार्थं च वचनम् / एतज्ज्ञापनार्थमेव च बहुवचनम् / 901 चरणस्य स्थेणोऽद्यतन्यामनुवादे // 3 / 1 / 138 // शाखाध्ययननिमित्तकव्यपदेशभाजो द्विजन्मानश्चरणाः कठादयः / प्रमाणान्तरपतिपन्नस्यार्थस्य शब्देन संकीर्तनमनुवादः / यज्ञकर्मणि शंसितानुशंसनमित्येके / अनुकरणमित्यपरे / अद्यतन्यां परभूतायां यौ स्थेणौ तयोः अनुकथने कर्तृत्वेन संबंधिनी ये चरणास्तद्वाचिनां शद्धानां स्वैर्द्वन्द्वोऽनुवादविषय एक-एकार्थः स्यात् / प्रत्यष्ठात् कठकालापम् / उदगात् कठकौथुमम् / एषामुदयप्रतिष्ठे कश्चिदनुवदति / चरणस्येति किम् / उदगुस्तार्किकवैयाकरणाः / स्थेण इति किम् / अगमन् कठकालापाः। अद्यतन्यामिति किम् / अतिष्ठन् कठकालापाः / अनुवाद इति किम् / उदगुः कठकालापाः / अमसिद्धं कथयति / अन्ये तु स्थेणोद्यतनीप्रयोगादनु पश्चाद्वादश्चरणद्वन्द्वस्येत्यनुवादस्तत्रेच्छन्ति / तन्मते इह न भवति / कठकालापाः प्रत्यष्ठुः। कठकौथुमा उदगुः। 902 अक्लीबेऽध्वर्युक्रतोः // 3 / 1 / 139 // अध्वर्यवो यजुर्वेदविदः / तेषां वेदोऽप्यध्वर्युः / तत्र विहिताः क्रतवोऽश्वमेधादयोऽध्वर्युक्रतवः / ससोमको यागः क्रतुः। अध्वर्युक्रतुवाचिनां शद्वानां स्वैर्द्वन्द्व एक-एकार्थः स्यात् अक्लीवे-क्लीवे चेदध्वयु