SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 199 पूर्वापरे / अधरोत्तरम् , अधरोत्तरे / पशुविकल्पेनैव सिद्धेऽश्ववडवग्रहणं तत्पर्यायनिवृत्त्यर्थम् / हयवडवे / स्वैरित्येव / अजाश्ववडवाः / न्यायादेव विकल्पे सिद्धे पूर्वापरादिग्रहणं पदान्तरनिवृत्त्यर्थम् , तेन पूर्वपश्चिमौ इत्यादौ विकल्पो न भवति / 895 पशुव्यंजनानाम् // 3 / 1 / 132 // पशूनां व्यंजनानां च स्वैर्द्वन्द्व एक-एकार्था वा स्यात् / गौश्च महिषश्च गोमहिषम् , गोमहिषौ। दधिघृतम् , दधिघृते / अश्वमहिषमित्यत्र तु परत्वात् 'नित्यवैरस्य , इत्यादिना वक्ष्यमाणेन नित्यमेकत्वविधिः। स्वैरित्येव / गोनरौ। 896 तरुतृणधान्यमृगपक्षिणां बहुत्वे // 3 / 1 / 133 // एतेषां बहुत्वे वर्तमानानां प्रत्येकं स्वैर्द्वन्द्व एकार्थो वा स्यात् / प्लक्षाश्च न्यग्रोधाश्च प्लक्षन्यग्रोधम् , प्लक्षन्यग्रोधाः। कुशकाशम् , कुशकाशाः। तिलमाषम्, तिलमाषाः। ऋश्यैणम् , ऋश्यैणाः। हंसचक्रवाकम् , हंसचक्रवाकाः। एकस्यापि पदस्य बहुत्वे भवति / प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधाः / प्लक्षौ च न्यग्रोधाश्च प्लक्षन्यग्रोधम् , प्लक्षन्यग्रोधाः इत्यादि / बहुत्व इति किम् / प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ / स्वैरित्येव / प्लक्षयवाः। होपादानं अमृगैरवहुत्वे चैकत्वाभावार्थम् / 897 सेनाङ्गक्षुद्रजन्तूनाम् // 3 / 1 / 134 // सेनाङ्गानां क्षुद्रजन्तूनां च बहुत्वे वर्तमानानां स्वैर्द्वन्द्वो नित्यमेक-एकार्थः स्यात् / पृथग्योगाद्वेति निवृत्तम् / सेनाङ्गम्-अश्वाश्च रथाश्च अश्वरथम् / रथिकाश्वारोहम् / हस्त्यश्वम् / केचित्तु सेनाङ्गानां पशूनां पशुलक्षणं विकल्पमिच्छन्ति / हस्त्यश्वम् , हस्त्यश्वाः / क्षुद्रजन्तवो ऽल्पकायाः प्रागिन आनकुलमिह स्मर्यन्ते / यूकालिक्षम् / बहुत्व इत्येव / सादिनिषादिनौ / स्वैरित्येव / हस्तिमशकाः। 89.8 फलस्य जातौ // 3 / 1 / 135 // फलवाचिनां शद्वानां बहुत्वे वर्तमानां च जातौ विवक्षायां स्वैर्द्वन्द्व एक-एकार्थः स्यात् / बदराणि चामलकानि च बदरामलकम्। फलस्येति किम् / ब्राह्मणक्षत्रियाः। जाताविति किम् / व्यक्तिपरचोदनायां मा भूत् / एतानि वदरामलकानि तिष्ठन्ति / बहुत्वे इत्येव / बदरामलके, बदरामलकम्। स्वैरित्येव / बदरशृगालाः। . 1 समाहारेतरेतरलक्षणात्।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy