________________ सिद्धहैमबृहत्मक्रिया. [ द्वन्द्वसमास रम् / रजकतन्तुवायम् / पायेति किम् / जनंगमबुक्कसाः। शूद्रग्रहणं किम् / ब्राह्मणक्षत्रियविशः। 907 गवाश्वादिः॥३।१।१४४॥ गवाश्वादिद्वन्द्व एक-एकार्थः स्यात् / गौश्च अश्वश्च गवाश्चम् / गवाश्वादिषु यथोचारितरूपग्रहणादन्यत्र नायं विधिः / गोऽवौ, गोऽश्वम् / पशुविभाषैव भवति / 908 न दधिपयआदिः // 3 / 1 / 145 // दधिपयःप्रभृति द्वन्द्व एक-एकार्थी न स्यात् / दधि च पयश्च दधिपयसी। सर्पिर्मधुनी / / 909 संख्याने // 3 / 1 / 146 // इयत्तापरिच्छेदः संख्यानम् / वर्तिपदार्थानां संख्याने गम्यमाने द्वन्द्व एकार्थो न स्यात् / दश गोमहिषाः। एतावन्ति दधिघृतानि। 910 वान्तिके // 3 / 1 / 147 // वर्तिपदार्थानां संख्यानस्यान्तिके-समीपे गम्यमाने द्वन्द्व एकार्थो वा स्यात् / उपगता दश यस्य येषां वा उपदशम् गोमहिषम् / उपदशा गोमहिषाः / उपदशाय गोमहिषाय / उपदशेभ्यो गोमहिषेभ्यः / द्वन्द्वार्थस्यैकत्वादनुपयोगस्यापि बहुव्रीहेरेकवचनान्तत्वम् / यदा तु दशानां समीपमुपदशमित्यव्ययीभावस्तदोपदशं गोमहिषायेति भवति / ___ 911 आ द्वन्द्वे // 3 / 2 / 39 // विद्यायोनिसंबंधनिमित्ते सति प्रवर्तमानानामृतां यो द्वन्द्वस्तस्मिन् सत्युत्तरपदे परे पूर्वपदस्याकारोऽन्तादेशः स्यात् / होता च पोता च है।तापोतारौ / मातापितरौ। अथेह प्रथमयोः कस्मान्न भवति होतृपोतनेष्टोद्गातारः इति?। अन्त्यस्यैवोत्तरपदत्वात् / कथं तर्हि होतापोतानेष्टोद्गातार इति?। द्वयोर्द्वयोर्द्वन्द्वे भविष्यति / यदा च होता च पोता च नेष्टोद्गातारौ चेति विग्रहस्तदा होतृपोतानेष्टोद्गातार इति / ऋतामित्येव / गुरुशिष्यौ / ऋतां द्वन्द्व इति किम् / पितृपितामहौ / विद्यायोनिसंबंध इत्येव / कर्तृकारयितारौ / विद्यायोनिसंबंधश्चेह प्रत्यासत्तेः समस्यमानानामृदन्तानामेव परस्परं दृष्टव्यो न येन केनचित् / तेनेह न भवति / चैत्रस्य स्वमृदुहितरौ / नात्र स्वमृदुहित्रोः परस्परं संबंधः। न हि स्वसा चैत्रस्य स्वसा भवन्ती दुहितरमपेक्षते दुहिता स्वसारमिति / यद्येवं कथं चैत्रस्य पितृभ्रातराविति ? अस्ति ह्यत्र परस्परसंबंधः। उच्यते। यद्यपि चैत्रस्य भ्राता भ्राता भवन् पितरमपेक्षते चैत्रपितृजनितस्यैव चैत्रभ्रातृत्वात् / तथापि पिता पिता भवन भ्रातरमपेक्षते। यद्येवं कथं मातापितरौ होतापोतारौ?। न ह्यत्र परस्परापेक्षस्त