SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्मक्रिया. द्वन्द्वसमास वृन्दारिका / दीर्घकेशवृन्दारिका / कठवृन्दारिका / बट्टचन्दारिका / वतण्डस्यापत्यं वार्तण्ड्यः स्त्री चेत् वतण्डी। सा चा सौ वृन्दारिका च वातण्ड्यवृन्दारिका / कपोतपाक एव कापोतपाक्यः स्त्री चेत् कापोतपाका सा चासौ वृन्दारिका च कापोतपाक्यन्दारिका। कुञ्जस्यापत्यं कौञ्जायन्यः स्त्री चेत् कौञ्जायनी / सा चासौ धन्दारिका च कौञ्जायन्यवृन्दारिका / अङ्गस्यापत्यानि अङ्गाः, स्त्रियश्चेदाजयः / ताश्च ता वृन्दारिकाश्च अङ्गन्दारिकाः / एवं गर्गद्वन्दारिकाः। इडविड् पृथ् दरद् उशिज एते जनपदशद्धाः क्षत्रियवाचिनः एभ्योऽपत्यप्रत्ययस्य स्त्रियां लुपि इडविट् चासौ वृन्दारिका चेत्यादिविग्रहे ऐडविडवृन्दारिका, दारदवृन्दारिका औशिजन्दारिका इति भवति / परतः स्त्रीत्येव / खट्वान्दारिका। अङित्येव, ब्रह्मबन्धचन्दारिका। 886 मृगक्षीरादिषु वा // 3 / 2 / 62 // मृगक्षीरादिसमासशब्देषु परतः स्त्रीलिजमनेकार्थेऽस्त्र्यर्थे चोत्तरपदे पुंवद्वा स्यात् / मृग्याः क्षीरं मृगक्षीरम् / मृगीक्षीरम् / एवं मृगपदम् , मृगोपदमित्यादि।पुंस्त्रीलिङ्गपूर्वपदभेदेन समासविवक्षायां मृगक्षीरादयो .न सिद्धयन्ति / मृगक्षीरादयः प्रयोगतोऽनुसतव्याः। इति श्रीसिद्धहैमबृहत्पक्रियायां समासप्रकरणे // अथ इन्द्रः // 467 चाथै द्वन्द्वः सहोक्तौ / / 3 / 1 / 117 // नाम नाम्ना सह सहोक्तिविषये चार्थे वर्तमान समस्यते स च समासो द्वन्द्वसंज्ञः स्यात् / समुच्चयान्वाचयेतरेतरयोमसमाहारभेदाच्चत्वारश्वार्थाः। तत्रैकमर्थ प्रति यादीनां क्रियाकारकद्रव्यगुणानी तुल्यबलानां अविरोधिनामनियतक्रमयोगपद्यानाम आत्मरूपभेदेन चीयमा. नवा समुच्चयः / यथा चैत्रः पचति पठति च। चैत्रो मैत्रश्च पठति / चशब्दमन्तरेणापि चायं संभवति / यथाहरहर्नयमानो गामश्वं पुरुषं पशुं वैवस्वतो न तृप्यति सुराया इस दुर्मदी / गुणप्रधानभावमात्रविशिष्टः समुच्चय एवान्वाचयः / यथा बटो भिक्षामट
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy