________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 197 गां चानय / स हि भिक्षा तावदटति यदि च गां पश्यति तामप्यानयति / द्रव्याणामेव परस्परसव्यपेक्षाणामुद्भूतावयवभेदः समूह इतरेतरयोगः। यथा चैत्रश्च मैत्रश्च चैत्रमैत्रौ घटं कुर्वाते / चैत्रश्च भैत्रश्च दत्तश्च चैत्रमैत्रदत्ताः पटं कुर्वन्ति / अत्रावयवानामु द्भूतत्वात् तत्संख्यानिबंधनं द्विवचन बहुवचनं च भवति। स एव तिरोहितावयवभेदः संहतिप्रधानः समाहारः / धवश्च खदिरश्च पलाशश्च धवखदिरपलाशं तिष्ठति / अत्र तु समूहस्य प्राधान्यात् तस्य चैकत्वादेकवचनमेव भवति / एषु चाद्ययोः सहोत्यभावात् समासो न भवति / उत्तरयोस्तु चार्थयोः सहोक्तेविद्यमानत्वात् समासो भवति / का पुनरिथं सहोक्तिः? / यद्वतिपदैः प्रत्येक पदार्थानां युगपदभिधानं सहोक्तिः। प्लक्षन्यग्रोधावित्यत्र हि प्लक्षोऽपि द्यर्थः न्यग्रोधोऽपि द्यर्थः / प्लक्षश्च न्यग्रोधश्चेति वाक्येऽपि चकारेणायमेवार्थः कथ्यते। उत्तरपदेन समुदायेन वा यद्वतिपदानां युगपदभिधानं सा सहोक्तिरित्यन्ये / वर्तिपदार्थानामेव सह क्रियादिसंबंधस्य यत् वाक्येनाभिधानं सा सहोक्तिरित्यपरे / एकविंशतिः द्वाविंशतिरित्यादिसंख्याद्वन्द्वः समुदायसंख्यैकत्वानुरोधेन विंशत्यादिवत् संख्येयमाचष्टे इतीतरेतरयोगेऽप्येकवचनान्तो भवति / समाहारेऽपि चाशताद् द्वन्द्व इति लक्षणात् स्त्रीलिङ्गो भवति / संख्याद्वन्द्वादन्यत्र एको देवदत्ताय दीयतां विंशतिश्चैत्रायेति एकविंशती अनयोर्देहि / एवं त्रिंशञ्चत्वारिंशतौ षष्टिसप्तत्यशीतय इत्यादौ द्विवचनबहुवचनान्तता / द्वन्द्वप्रदेशाः 'द्वन्द्वे वा ' इत्यादयः / 888 धर्मार्थादिषु इन्द्धे // 1 // 3 / 159 // धर्मार्थादौ द्वन्द्वे समासे प्राप्तपूर्वनिपातं वा पूर्व निपतति / धर्मार्थी। अर्थधर्मो / अत्र स्वराबदन्तत्वान्नित्यं पूर्वनिपाते प्राप्तेऽनेन विकल्पः / बहुवचनमाकृतिगणार्थम् / तेन वसन्तग्रीष्मौ / ग्रीष्मवसन्तावित्यादयोऽपि द्रष्टव्याः / 889 लघ्वक्षरासखीदुत्स्वराद्यदल्पस्वराय॑मेकम् // 3 / 1 / 160 // पृथग्योगाद्वेति निवृत्तम्। लध्वक्षरं सखिवर्जेकारोकारान्तं स्वराधकारान्तमल्पस्वरमय॑वाचि च शब्दरूपं द्वंद्वे प्राक् स्यात् यत्र चानेकसंभवस्तत्रैकमेव / तिलमाषम् / अग्निधूमम् / सखिवर्जनं किम् / सुतसखायौ। 'ग्रहणवता नान्नान तदन्तविधिः' इति तदन्तस्य पतिषेधो न भवति / बहुसखिबहुधनौ / स्पर्धे परमेव ।बीहियवौ / असखीदुदित्यैकपद्यादिदुतोः स्पर्धे कामचारः। पतिवम् / वसुपती / स्वराद्यत्-अस्त्रशस्त्रम् / स्पर्धे परमेव / उष्ट्रखरम् / अल्पस्वर-प्लक्षन्यग्रोधौ / स्पर्धे परमेव / धवखदिरौ / अर्य-श्रद्धामेधे।