________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. तु नित्य एव विधिर्जातीयैकार्थ इत्युक्त एव / महतां करः महाकरः, महत्करः। कर एव कारः, महाकारः, महत्कारः। महाघासः, महद्घासः। महाविशिष्टः, महद्विशिष्टः। महत इति किम्। राजकरः। करादिष्विति किम् / महतः पुत्रः महत्पुत्रः / डकारोऽन्त्यस्वरादिलोपार्थः स च उत्तरार्थः। 881 स्त्रियाम् // 3 / 2 / 69 // स्त्रियां वर्तमानस्य महतः करादिषूत्तरपदेषु नित्यं डाः स्यात् / महत्याः करः महाकरः। एवं महाघासः। महाविशिष्टः। नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति पूर्वेणैव सिद्धे नित्यार्थमिदम् / 882 न पुवन्निषेधे // 3 / 271 // महतः पुंवनिषेधविषये उत्तरपदे डा न स्यात् / महती प्रिया अस्य महतीप्रियः / महतीमनोज्ञः। . .. 883 हविष्यष्टनः कपाले // 3 / 2 / 72 // हविष्यभिधेयेऽष्टनशब्दस्य कपाले उत्तरपदे दीर्घः स्यात् / अष्टसु कपालेषु संस्कृतं अष्टाकपालं हविः / हविषीति किम् / अष्टानां कपालानां समाहारः अष्टकपालम् / पात्रादित्वात् स्त्रीत्वाभावः / कपाल इति किम् / अष्टपात्रं हविः। 884 गवि युक्ते // 3 / 274 // अष्टन्शब्दस्य गव्युत्तरपदे युक्तेऽभिधेयें दीर्घोऽन्तादेशः स्यात् / अष्टागवं शकटम् / अष्टौ गावो युक्ता अस्मिन्निति त्रिपदे बहुव्रीहौ युक्तार्थसंप्रत्ययाद्गतार्थत्वाद्युक्तशब्दस्य निवृत्तिः। अथवा समाहारद्विगुः। तत्र साहचर्यादुपचारादष्टगवेन युक्तं शकटमष्टागवमुच्यते / गवीति किम् / अष्टतुरगो रथः / युक्त इति किम् / अष्टगवं ब्राह्मणधनम् / अष्टगुश्चैत्रः। 885 पुंवत्कर्मधारये // 3 / 2 / 57 // परतः स्यनङ कर्मधारये समासे स्येकार्थे उत्तरपदे परे पुंवत् स्यात् / प्रतिषेधनिवृत्यर्थ आरंभः / 'नाप्पियादौ' इत्युक्तं तत्रापि भवति / कल्याणी चासौ प्रिया च कल्याणप्रिया / एवं कल्याणमनोज्ञा / ' तद्धिताककोपान्त्यपूरण्याख्याः' इत्युक्तं तत्रापि भवति / मद्रिका चासो भार्या च मद्रकभार्या / लाक्षिकबृहतिका / पाचकवृन्दारिका। कारकवृन्दारिकाः। तिश्चामानिनि इत्युक्तं तत्रापि भवति / चन्द्रमुखी चासौ वृन्दारिका चामन्त्रमुल