________________ सिद्धहैमबृहत्मक्रिया. [ तत्पुरुषसमास 874 पुरुषायुषदिस्तावत्रिस्तावम् // 7 / 3 / 120 // एतेऽत्प्रत्ययान्तास्तत्पुरुषा निपात्यन्ते / पुरुषायुषम् / द्विस्तांवती विस्तावा। त्रिस्तावा वेदिः / वेद्यामनयोः प्रयोगः / अतीशब्दस्य लोपो निपातनात् / प्रकृतौ यावती वेदिस्तावती द्विगुणा त्रिगुणा वा कस्यांचिद्विकृतौ भवति / प्रकृतिविकृती यागविशेषौ / अन्यत्रापि दृश्यते / द्विस्तावोऽग्निः / त्रिस्तावोऽग्निः / 877 श्वसो वसीयसः // 73 / 121 // श्वसः परो यो वसीयस शब्दस्तदन्तात् तत्पुरुषादत् समासान्तः स्यात् / वसुमच्छब्दादीयसौ मतोरन्त्यस्वरादेच लोपे वसीयः / शोभनं वसीयः श्वोवसीयसं कल्याणम् / . 876 निसश्च श्रेयसः // 7 / 3 / 122 // निस्शब्दात् श्वस्शद्धाच्च परो यः श्रेयस्शवस्तदन्तात् तत्पुरुषादत समासान्तः स्यात् / निश्चितं श्रेयः निःश्रेयसम्निर्वाणम् / शोभनं श्रेयः श्वःश्रेयसम् / . . . 877 नत्रव्ययात् संख्याया डः // 7 / 3 / 123 // नमोऽव्ययाच यरो यः संख्याशब्दस्तदन्तात् तत्पुरुषात् डः समासान्तः स्यात् / न दश अदशाः। अनवाः। न्यूना दश न्यूना नव इत्यर्थः। न पूर्वोऽयं वैकल्ये दृश्यते / निर्गतस्त्रिंशतोऽङ्गुलिभ्यो निस्त्रिंशः खङ्गः / नअव्ययादिति किम् / गोत्रिंशत् / नग्रहणं ' नतत्पुरुषात् ' इति प्रतिषेधे प्राप्त प्रतिप्रसवार्थम् / संख्याया इति किम् / निःशकृत / तत्पुरुषादित्येव / न विद्यते त्रयो यस्य सोऽत्रिः। डित्वमन्त्यस्वरादिलोपार्थम् / 878 संख्याव्ययादङ्गुलेः // 7 / 3 / 124 // संख्याया अव्ययाच परो योऽङ्गुलिशब्दस्तदन्तात् तत्पुरुषाड्डः समासान्तः स्यात् / द्वयोरगुल्योः समाहारः यङ्गुलम् / द्वे अङ्गुली प्रमाणमस्य मात्रट तस्य लुप् ततः समासान्तः। यगुलम् / निरगुलम् / तत्पुरुषादित्येव / उपाङ्गुलि। कथमात्मागुलं, प्रमाणागुलम्, उत्सेपागुलमिति ? अङ्गुलशब्दः प्रमाणवाची प्रकृत्यन्तरम् / यथा स्वेनाशुलप्रमापेनाङ्गुलानां शतं पुमान् / ... 879 नञ्तत्पुरुषात् // 7 // 371 // नञ्तत्पुरुषात् समासान्तो न स्यात् / अराजा / असखा / ...... - 880 महतः करघासविशिष्ठे डाः // 3 / 2 / 68 // करादिषूत्तरपदेषु महतो डा इत्ययमन्तादेशो वा स्यात्। वैयधिकरण्ये इयं विभाषा। सामानाधिकरण्ये