________________ सिद्धहैमबृहत्मक्रिया. मण्डूकसरसमिति जातिरित्येके / उपानसमिति अन्नविशेषस्य संज्ञा जातिर्वा / महानसं पाकस्थानस्य संज्ञा / राज्ञ उपस्थितमित्येके / स्थूलाश्मः, अमलाश्मः / कनकाश्मः। अश्मजातिविशेषा एते / पिण्डाश्मः संज्ञा जातिर्वा / कालायसम् , लोहितायसम् / तीक्ष्णायसम् / अयोजातिविशेषा,एते। लोहितायसमिति नामेत्येके / जातिनाम्नोरिति किम् / परमसरः। सदनः। सदश्मा / कथं बिन्दुसर इति ? / नैषा संज्ञा / रूढया ह्यत्र संज्ञाविज्ञानं शूर्पनखीवत् / 869 अहः // 73 / 116 // अहन्शब्दात् तत्पुरुषाद समासान्तः स्यात् / परमाहः। उत्तमाहः / एकाहम् / पुण्याहम् / सुदिनाहम् / 870 संख्यातादहश्च वा // 7 // 3 / 117 // संख्यातशब्दात् परो योऽहन् शब्दस्तदन्तात् तत्पुरुषादट् समासान्तः स्यात् , तस्याहन्शब्दस्याह्नादेवाश्च वा। संख्यातमहः संख्याताह्नः संख्याताहः। अह्नादेशार्थ वचनम् / अट् तु पूर्वेणैव सिद्धः। विज्ञायेत / तथा च स्त्रियां डीन स्यात् / 871 सर्वाशसंख्याव्ययात् // 73 / 118 // सर्वशब्दादंश एकदेशस्तद्वाचिभ्यः संख्यावाचिभ्योऽव्ययेभ्यश्च परो योऽहन्शब्दस्तदन्तात् तत्पुरुषाद समा 872 अतोऽहस्य // 2 // 373 // रेफादिमतोऽकारान्तात् पूर्वपदात् परस्याह्नशब्दसंबंधिनो नस्य णः स्यात् / सर्वमहः सर्वाह्नः / पूर्वाह्नः। द्वयोरह्नोभवो यह्नः पटः / अत्यह्नः / अत्यही कथा / 873 संख्यातैकपुण्यवर्षादीर्घाच रात्ररत् // 7 // 3 // 119 / / संख्यात एक पुण्य वर्षा दीर्घ इत्येतेभ्यश्चकारात् सर्वाशादिभ्यश्च परो यो रात्रिशब्दस्वदन्तात् तत्पुरुषादत् समासान्तः स्यात् / संख्याता रात्रिः संख्यातरात्र / एकरात्रः। पुण्यरात्रः / वर्षाणां रात्रिः वर्षारात्रः / दीर्घरात्रः। सर्वरात्रः / पूर्वरात्रः / द्वयो राज्योः समाहारः द्विरात्रः। अतिरात्रः। एकग्रहणं संख्याग्रहणेनानेनैकस्याग्रहणार्थम् / तेन पूर्वसूत्रे संख्याशब्देनैकस्याग्रहणम् / एकमहः एकाहम् / अटि पकृतेऽत्विधानं स्त्रियां ङयभावार्थम् /