SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 192 सिद्धहैमबृहत्मक्रिया. [तत्पुरुषसमास 864 प्राणिन उपमानात् // 73 / 111 // प्राणिवाचिन उपमानात् परो यःश्वन्शब्दस्तदन्तात्तत्पुरुषादट् समासान्तः स्यात् / व्याघ्र इव व्याघ्रःस चासौ श्वा च व्याघ्रश्वः। 'उपमेयं व्याघ्राद्यैः साम्यानुक्ता' इति समासः। अतएव वचनात् श्वनशब्दस्य परनिपातः / मयूरव्यंसकादित्वाद्वा समासः / पाणिन उपमानादिति पूर्वपदविज्ञानादिह न भवति / वानरःश्वेव वानरवा। प्राणिन इति किम् / फलकमिव श्वा फलकवा / उपमानग्रहणं किम् / देवदत्तवा / पाणी उपमानभूतो यः श्वाशब्दः तदन्तात् तत्पुरुषादिच्छन्त्येके / व्याघ्रः श्वेव व्याघ्रश्वः / तन्मते वानर श्वेत्यत्र समासान्तविधेरनित्यत्वान्न भवति / 865 अप्राणिनि // 7 / 3 / 112 // पूर्वसूत्रे उपमानादिति पूर्वपदस्य विशेषणम् / इह तु शुनः। अप्राणिनि वर्तते य उपमानवाची श्वन्शब्दस्तदन्तात् तत्पुरुषादट् समासान्तः स्यात् / श्वव वा,आकर्षश्वासोश्वाच आकर्षश्वः। अप्राणिनीति किम् / वानरः श्वेव वानरश्वा / उपमानादित्येव / आकर्षे श्वा आकर्षश्वा / कुक्कुरवच्छारेऽपिश्वनशब्दो रूढो नोपमानम् / तत्राप्युपमानादेव वर्तत इत्येके।तन्मते आकर्षश्व इत्येव भवति / केचित्तपमानादिति नापेक्षन्ते, तन्मते आकर्षे श्वा आकर्षश्व इत्येव भवति / अन्ये तूपमानादप्राणिनीति एकमेव योगमारभन्ते / तन्मते व्याघ्रश्व इत्यादि न भवति / 866 पूर्वोत्तरमृगाच सक्थ्नः // 73 / 113 // पूर्वोत्तरमृग इत्येतेभ्य उपमानवाचिनश्च शब्दात् परो यः सक्थिशब्दस्तदन्तात्तत्पुरुषाद समासान्तः स्यात् / पूर्व सक्थि सक्थ्नः पूर्व वा पूर्वसक्थम् / मृगस्य सक्थि मृगसक्थम् / उपमानात् फलकमिव फलकम् , फलकं च तत् सक्थि च फलकसक्थम् ।व्याघ्रश्वादि. वत्समासः / पूर्वशब्दानेच्छन्त्येके / कुक्कुटादपीच्छन्त्यन्ये / कुक्कुटसक्थम् / 8867 उरसोऽग्रे // 7 / 3 / 114 // अग्रं मुख प्रधानं वा तत्र वर्तमानो य उरसशब्दस्तदन्तात् तत्पुरुषादट् समासान्तः स्यात् / अश्वाश्च ते उरश्च अश्वोरसं दृश्यते / सेनाया अश्वा मुखमित्यर्थः / अग्र इति अश्वोरस्यावर्तः / 868 सरोऽनोऽश्मायसो जातिनानोः // 7 / 3 / 115 // सरस् अनस् अश्मन् अयस् इत्येतदन्तात् तत्पुरुषादट् समासान्तः स्यात् जातावभिधेयायां नाम्नि च विषये। इदं च यथासंभवं विशेषणम् / जातसरसम् / मण्डूकसरसम् / एवंनाम्नी सरसी।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy