SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. मास उक्तस्तत्राय विधिः। अर्ध खार्याः अर्धवारम् अर्धवारी। विधानसामर्थ्यादडन्तस्य न स्त्रियां वृत्तिः / चकारो द्विगोरनुकर्षणार्थः / तेनोत्तरत्र द्वयमप्यनुवर्तते / 858 नावः // 73 / 104 // अर्धशब्दात् परो यो नौशब्दस्तदन्तात् समासाद् द्विगोश्च नौशब्दान्तान्तादलुकोऽट् समासान्तः स्यात् / अर्ध नावः अर्धनावम् अर्धनावी / द्विगो:-द्विनावम् / द्विनावमयम् / द्विनावप्रियः। अलुक इत्येव / द्वाभ्यां नौभ्यां क्रीतः द्विनौः / द्विगोरित्येव / द्वयोः द्विनौः / अर्धादित्येव / राजनौः / टकारो यर्थः / अर्धनावम् अर्धनावीति हि स्त्रीनपुंसकयोदृश्यते / 859 गोस्तत्पुरुषात् // 73 / 105 // गोशब्दान्तात् तत्पुरुषादलुकोऽट् समासान्तः स्यात् / राज्ञो गौः राजगवः, राजगवी / पञ्चगवम् / पञ्चगवमयम् / पञ्चगवधनः। तत्पुरुषादिति किम् / चित्रगुः / अलुक इत्येव / पञ्चभिौभिः क्रीतः पञ्चगुः / 860 राष्ट्राख्याद् ब्रह्मणः // 7 // 3 / 107 // राष्ट्रवाचिनः परो यो ब्रह्मन्शब्दस्तदन्तात् तत्पुरुषादट् समासान्तः स्यात् / सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः। यः सुराष्ट्रेषु वसति स सौराष्ट्रिको ब्राह्मण इत्यर्थः / राष्ट्राख्यादिति किम् / देवब्रह्मा नारदः / आख्य ग्रहणं राष्ट्रवाच्यर्थम् / 861 कुमहद्भयां वा // 7 // 3 // 108 // कु महदित्येताभ्यां परो यो ब्रह्मन्शब्दस्तदन्तात्तत्पुरुषाद्वाट् समासान्तः स्यात् / पापब्रह्मा कुब्रह्मा , कुब्रह्मः / महान्-ब्रह्मा महाब्रह्मः महाब्रह्मा / पापो महाश्च ब्राह्मण एवमुच्यते / 862 ग्रामकौटात्तक्ष्णः // 7 // 3 // 109 // ग्राम कौट इत्येताभ्यां परो यस्तक्षन् शब्दस्तदन्तात् तत्पुरुषाद समासान्तः स्यात् / ग्रामस्य तक्षा ग्रामतक्षः। ग्रामसाधारण इत्यर्थः / कुटी शाला तस्यां भवः कौटः , कौटस्तक्षा कौटनक्षः / स्वापणशालायां यः कर्म करोति स्वतंत्रो न कस्यचित प्रतिबद्ध इत्यर्थः। ग्रामकौटादिति किम् / राजतक्षा / तत्पुरुषादित्येव / ग्रामश्च तक्षा च ग्रामतक्षाणौ / 863 गोष्ठातेः शुनः // 7 / 3 / 110 // गोष्ठ अति इत्येताभ्यां परो यः श्वन् शब्दस्तदन्तात्तत्पुरुषादट् समासान्तःस्यात् / गोष्ठे श्वा गोष्ठश्वः। अतिक्रान्तः श्वानम् अतिश्वो वराहः / अतिजवन इत्यर्थः /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy