________________ सिद्धहैमबृहत्मक्रिया. [ तत्पुरुषसमास ___ 853 द्विगोरेननोऽट् // 7 // 3 / 99 // अन्नन्तादहन्शब्दान्ताच द्विगोः समाहारे वर्तमानादट् समासान्तः स्यात् / पञ्च तक्षाणः समाहृताः पञ्चतक्षी / पञ्चतक्षम् / द्विगोरिति किम् / समाहृतास्तक्षाणः संतक्षाणः। समाहार इत्येव / द्वाभ्यामुक्षाभ्यां क्रीतः युक्षा। अन्नन्तत्वेनैव सिद्धेऽह्न इदमड्विधानं समाहारे 'सर्वाशसंख्याव्ययात्' इति परस्याप्यटो बाधनार्थम् / तस्मिन् हि सत्यनादेशः स्यात् / 854 दिवेरायुषः // 7 // 3 // 100 // द्वि त्रि इत्येताभ्यां परो य आयुष्शब्दस्तदन्ताद् द्विगोः समाहारे वर्तमानादट् समासान्तः स्यात् / द्वयोरायुषोः समाहारो यायुषम् / व्यायुषम् / द्वित्रेरिति किम् / चतुरायुः / समाहारे इत्येव / द्यायुःमियः / व्यायुःप्रियः। 855 वाञ्जलेरलुकः // 7 / 3 / 101 // द्वित्रिभ्यां परो योऽञ्जलिशब्दस्तदन्ताद् द्विगोरट् समासान्तो वा स्यात् न चेत् स द्विगुस्तद्धितलुगन्तः। द्वयोरञ्जल्योः समाहारः व्यञ्जलम् / यञ्जलि / व्यञ्जलम् / व्यञ्जलि / द्वाभ्यामञ्जलिभ्यामागतं घ्यञ्जलमयम् / यञ्जलिमयम् / अलुक इति किम् / द्वाभ्यामञ्जलिभ्यां क्रीतः यञ्जलिर्घटः / द्विगोरित्येव / द्वयोरञ्जलिः यञ्जलिः / नित्योऽयं विधिरित्येके / 856 खार्या वा // 7 / 3 / 102 // पृथग्योगाद् द्विवेरिति निवृत्तम् / खारीशब्दान्ताद् द्विगोरलुकोऽट् समासान्तो वा स्यात् / द्विखारम्।पक्षे 'क्लीवे ' इत्यनेन इस्वत्वे द्विखारि / केचिदत्र पुंस्त्वमपीच्छन्ति, तन्मते 'गोश्चान्ते '-इत्यादिना इस्वत्वे द्विखारिः। स्त्रीत्वमप्यन्ये / तन्मते पूर्ववद्रस्वत्वे 'इतोऽक्त्यर्थात् ' इति ङन्यां च द्विखारी। एवं पञ्चखारम् / पञ्चखारी। द्विखारमयम् / द्विखारीमयम् / पञ्चखारधनः / पञ्चखारीधनः / द्विगोरित्येव / उपखारि / अलक इत्यस्य प्रत्युदाहरणं नास्ति विशेषाभावात् / यतस्तद्धितलुक्यडभावेऽपि 'डन्यादेः' इत्यादिना ङीलुकि पुन्नपुंसकयोः द्विखारः द्विखारम् / स्त्रियां तु 'परिमाणात्तद्धितलुकि' इत्यादिना डीप्रत्यये द्विखारीति भवति / एतच्च त्रैरूप्यमटयपि भवति / इदन्तात् डन्यां खारीत्येके / तदा तु अस्त्येव विशेषः / 857 वार्धाच // 7 // 3 / 103 // अर्धशद्वात् परो यः खारीशब्दस्तदन्ताच समासादलुकोऽट् समासान्तो वा स्यात् / ‘समेंऽशेऽर्धे नवा' इत्यर्धशब्दे यः प्रतिपदं स