________________ 189 प्रकरणम् सिद्धहैमबृहत्पक्रिया. शाकपार्थिवादयः / शाकप्रियः शाकभोजी शाकप्रधानो वा पार्थिवः पृथोरपत्यं शाकपार्थिवः। पृथिव्या ईश्वरः पार्थिवः इति वा तेन शाकपार्थिवः। अत्र शाकपार्थिवादिषु पियादेरुत्तरपदस्य लोपः। एवमविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्यः। यच्चेह लक्षणेनानुपपन्नं तत् सर्वं निपातनात् सिद्धम् / सूत्रे इतिशब्दः स्वरूपावधारणार्थः / तेन परमो मयूरव्यंसक इति समासान्तरं न भवति / उत्तरपदेन भवत्येवेत्यन्ये / मयूरव्यंसकप्रिय इत्यादि / बहुवचनमाकृतिगणार्थम् / तेन विस्पष्टपटुरित्यादयो दृष्टव्याः / 849 राजदन्तादिषु // 3 / 1 / 149 // राजदन्त इत्यादिषु समासेषु अप्राप्तपूर्वनिपातं प्राग निपतति / दन्तानां राजा राजदन्तः। षष्ठीति प्रथमोक्तत्वेन दन्तशब्दस्य पूर्वनिपाते प्राप्ते राजशब्दस्यानेन पूर्वनिपातः। पूर्व वासितं पश्चाल्लिप्तं लिप्तवासितम् / अत्र 'पूर्वकाल ' इति प्रथमोक्तत्वेन वासितस्य पूर्वनिपाते प्राप्ते लिप्तस्य पूर्वनिपातः। बहुवचनमाकृतिगणार्थम् / तेन कचिद्विकल्पः। पुरुषोत्तमः, उत्तमपुरुष इत्यादि। 850 कडाराः कर्मधारये // 3 / 1 / 158 // कडारादयः शब्दाः कर्मधारये समासे वा पूर्व निपतन्ति / कडारजैमिनिः, जैमिनिकडारः। कडारादीनां गुणवचनत्वात् द्रव्यशब्दानित्यं पूर्वनिपाते प्राप्ते पक्षे परनिपातार्थं वचनम् / यदा तु द्वावपि गुणशब्दौ तत्र निर्मातानि ताभ्यां विशेषणविशेष्यत्वे पर्यायेण पूर्वनिपात इत्युक्तमेव। गडुलकाणः, काणगडुलः / बहुवचनमाकृतिगणार्थम् / तेन नटवधिरादयोऽपि द्रष्टव्याः / 851 जातमहबृद्धादुक्ष्णः कर्मधारयात् // 395 // जात महत् वृद्ध इत्येतेभ्यः परो य उक्षन् शब्दस्तदन्तादत् समासान्तः स्यात् / जातश्चासावुक्षा च जातोक्षः / महोक्षः / वृद्धोक्षः / जातादिभ्य इति किम् / परमोक्षा। उक्ष्ण इति किम् / महाश्मश्रु / कर्मधारयादिति किम् / जातस्योक्षा जातोक्षा। 852 स्त्रियाः पुंसो बन्द्राच्च / / 7 / 3 / 96 // स्त्रीशब्दात् परो यः पुम्स्शब्दस्तदन्ताद् द्वन्द्वात् कर्मधारयाचात् समासान्तः स्यात् / स्त्री च पुमाश्च स्त्रीपुंसं स्त्रीपुंसौ स्त्रीपुंसाः / कर्मधारयात्-स्त्री चासौ पुमाश्च स्त्रीपुंसः शिखण्डी / द्वन्द्वान्चेति म् कि / स्त्रियाःपुमान स्त्रीपुमान् /