________________ 188 सिद्धहैमबृहत्प्रक्रिया. [ तत्पुरुषसमास वीरपूजार्थसन्महत्परमोत्तमोत्कृष्टा' इति,न्दारकनागकुञ्जरैरिति,युवाखलतिपलितजरद्वलिनैरिति,कृत्यतुल्याख्यमजात्येति,कुमारःश्रमणादिनेतिपञ्चसूत्रों विरचय्य तस्यामेव प्रथमान्तानां समावेशे परसूत्रनिर्दिष्टमेव प्रथमान्तं पूर्व निपतति तृतीयान्तानां समावेशे परसूत्रनिर्दिष्टमेव तृतीयान्तं परं निपतति एकसूत्रोक्तानां तु प्रथमान्तानां तृतीयान्तानांच समावेशे पूर्वापरनिपाते कामचार इतीच्छन्ति। प्रथमान्तसमावेशे-तुल्ययुवा, सदृशयुवा। कुमारपरमः,कुमारपरमा। कुमारसन् , कुमारसती। एवं महज्जघन्यप्रथम चरममध्यमध्यमादयोऽपि। कुमारयुवा, कुमारतुल्यः, कुमारतुल्या। तृतीयान्तसमावेशेवृन्दारकपलितः वृन्दारकवलिनः नागजरन् वृन्दारकश्रमणा खलतिश्रमणा वृन्दारकप्रत्रजिता खलतिप्रजिता जरत्कुलटा जरत्तापसी इत्यादि / श्रमणादीनां पुंलिङ्गत्वे त्वनियमः। तेन वृन्दारकश्रमणः श्रमणवृन्दारकः / नागतापसः तापसनागः। कुञ्जरदासः दासकुञ्जरः। तथा श्रमणखलतिः खलतिश्रमणः। पलिततापसः तापसपलितः इत्यादि / अध्यायकादयस्तु लिङ्गान्तरेऽपि परनिपातना एव / वृन्दारकाध्यायकः वृन्दारिकाध्यायिका। खलत्यध्यायकः खलत्यध्यायिका। पलिताभिरूपकः पलिताभिरूपिका / एकसूत्रोक्तानां प्रथमान्तानां समावेशे प्रथमवीरः वीरप्रथमः / चरमजघन्यः जघन्यचरमः / इत्यादि / तुल्यभोज्यः भोज्यतुल्य इत्यादि / एकसूत्रे तृतीयान्तानां समावेशे खलतिपलितः पलितखलतिः / जरद्वलिनः वलिनजरन् इत्यादि / 848 मयूरव्यंसकेत्यादयः॥३।१।११६॥ मयूरव्यसकादयः तत्पुरुषसमासा निपात्यन्ते // विगतावंसावस्य व्यंसस्तत्तुल्यो व्यसकः / व्यंसयति वा छलयति व्यंसकः / व्यंसकश्चासौ मयूरश्च मयूरव्यंसकः / मुण्डश्चासौ कंबोजश्च कंबोजमुण्डः। यवं यवनमुण्डः। व्यसका चासौ मयूरी च मयूरव्यंसका। कर्मधारयलक्षणः पुंवद्भावः। एतेषु विशेष्यस्य पूर्वनिपातनम् / एहीडादयोऽन्यपदार्थे / एहि इडे स्त्रि इति जल्पो यस्मिन् कर्मणि काले वा तत् एहीडं वर्तते / एवं एहियवमित्यादि / आख्यातमाख्यातेन सातत्ये / अश्नीत पिवतेति सातत्येनोच्यते यस्यां सानीतपिबता / एवमश्नीतपचतेत्यादिषु क्रियैवान्यपदार्थः। ह्यन्तं स्वकर्मणा बहुलमाभीक्ष्ण्ये कर्तरि समासाभिधेये / जहि जोडमित्यभीक्ष्णं य आह स उच्यते जहिजोडः। बहुलवचनान्न च भवति / पचौदनमित्यभीक्ष्णमाह / गतप्रत्यागतादयः। गतं च तत्मत्यागतं च गतप्रत्यागतम् / एवं यातानुयातम् पुटापुटिकेत्यादिषु व्यवस्थितपूर्वोत्तरपदसमासः।