SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ 182 सिद्धहैमबृहत्प्रक्रिया. [तत्पुरुषसमास दक्षिणकोशलाः / एवं नामानो जनपदाः। संज्ञायां नित्यसमासः / नहि वाक्येन संज्ञा गम्यते / पूर्वोत्तरविभागप्रदर्शनार्थं तु विग्रहवाक्यम् / तद्धिते-दक्षिणस्यां शालायां भवः दाक्षिणशालः / अधिकं खल्वपि-अधिकया षष्टया क्रीतः अधिकां पष्टिं भूतो भावी वा अधिकपाष्टिकः / अयमपि नित्यसमासः। नहि तद्धिते वाक्यमस्ति / उत्तरपदे-दक्षिणो गौधनमस्य दक्षिणगवधनः। अधिकगवप्रियः / अत्र तत्पुरुषलक्षणः समासान्तो वक्ष्यते / उत्तरपदेऽपि नित्यसमासः। त्रयाणामेकाथीभाव एवोत्तरपदसंभवात् / तत्र च द्वयोर्व्यपेक्षाभावात् / संज्ञादिग्रहणं किम् / उत्तरा वृक्षाः / विशेषणं विशेष्येणेत्येव सिद्ध नियमार्थ वचनम् / दिगधिकं संज्ञातद्वितोत्तरपद एव समस्यते नान्यत्रेति / दक्षिणा गावोऽस्य सन्ति दक्षिणगुरित्यादौ सन्तीत्येतदनपेक्षयान्तरङ्गत्वेन बहुव्रीहिभावादुक्तार्थत्वेन मत्वर्थीयतद्धितविषयभाव एव नास्तीत्यनेन समासो न भवति / 827 संख्या समाहारे च द्विगुश्चानाम्न्ययम् ॥३।११९९॥अनेकस्य कथंचिदेकत्वं समाहारः। संख्यावाचि नाम परेण नाम्ना सह समस्यते संज्ञातद्धितयोविषयभूतयोरुत्तरपदे परे समाहारे चाभिधेये स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च / अयमेव चानाम्नि-असंज्ञायां द्विगुसंज्ञश्च स्यात् / संज्ञायाम्-पञ्चाम्राः। तद्धिते-द्वयोर्मात्रोरपत्यं द्वैमातुरः / उत्तरपदे-पञ्च गावो धनमस्य पञ्चगवधनः / समाहारे-पञ्चानां पूलानां समाहारः पञ्चपूली / समाहारे चेति किम् / अष्टौ प्रवचनमातरः। विशेषणं विशेष्येणेत्यनेनापि न भवति / नियमार्थवादस्य / एकस्य समाहारायोगादपूपेन समासे कथमेकापूपी ? / एकस्याप्यनेकपर्यायोपनिपातिनोऽप्यनेकत्वसंभवे समाहारोपपत्तेः। द्विगुश्चेति चकारः कर्मधारयतत्पुरुषसंज्ञासमावेशार्थः / अनाम्नीति किम् / पश्चर्षीणामिदं पाश्चर्षम् / अत्र द्विगुत्वेऽनपत्यप्रत्ययस्य लुप् स्यात् / अयंग्रहणमुत्तरत्र द्विगुश्चेत्यस्याननुवृत्त्यर्थम् / 828 निन्धं कुत्सनैरपापाद्यैः // 3 / 1 / 100 // निन्द्यवाचि नामैकार्थ पापादिवर्जितैः कुत्सनैनिन्दाहेतुभिः सह समस्यते स च समासस्तत्पुरुषसंज्ञः कर्मकर्मधारयसंज्ञश्च / वैयाकरणश्वासौ खसूची च वैयाकरणखसूची / यः शब्दं पृष्टः सन्निष्पतिभत्वात् खं सूचयति स एवमुच्यते / वैयाकरणखचिरित्यन्ये / मीमांसकदुर्दुरूढः / दुर्दुरूढो नास्तिकः। निन्द्यमिति किम् / वैयाकरणश्चौरः। प्रत्यासत्तेनिन्धशब्दप्रवृत्तिनिमित्तकुत्सायामयं समास इष्यते / न चात्र चौर्येण वैयाकरणत्वं
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy